________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०४६
चरक संहिता |
[ अन्नपानविधिः
श्लेष्मलो मारुतन्नश्च पलाण्डुर्न च पित्तकृत् । आहारयोगे बल्यश्च गुरुवृ ष्योऽथ रोचनः ॥ क्रिमिकुष्ठकिलासन्नो वातघ्नो गुल्मनाशनः । स्निग्धश्चोष्णश्चवष्यश्च लशुनः कटुको रसः ॥ शुष्काणि कफवातन्नान्येतान्येषां फलानि च । हरितानामयञ्चैषां षष्ठो वर्गः समाप्यते ॥ ३३ ॥ [ इति हरितवर्ग: । ६ । । श्लेष्मल इत्यादि । पलाण्डुः श्लेष्मलो मारुतन्नश्च ईषत् पित्तलश्चाल्पार्थखात् नमः । स च द्विविधः, पलाण्डुः क्षीरपलाण्डुचाहारयोगे बल्यश्च गुरुश्च दृष्यश्च रोचनश्च । सुश्रुते च नात्युष्णवीर्य्योऽनिलहा कटुव तीक्ष्णो गुरुर्नातिकफावहश्च । बलावहः पित्तकरोऽथ किञ्चित् पलाण्डुरग्निञ्च विविद्धेयेच्च ॥ स्निग्धोऽरुचिघ्नः ftrangea बल्योsथ मेधाकफपुष्टिकृच्च । स्वादुगुरुः शोणितपित्तशस्तः स पिच्छिलः क्षीरपलाण्डुरुक्तः ॥ इति । क्रिमीत्यादि । लशुनो रसोनः क्रिम्यादिनाशनादिगुणः । सुश्रुते च - स्निग्धोष्णतीक्ष्णः कटुपिच्छिलय गुरुः स्थिरः स्वादुरसश्च बल्यः । हृष्यथ मेधा स्वरवर्णचक्षुभेनास्थिसन्धानकरो रसोनः ॥ हृद्रोगजीर्णज्वर कुक्षिशूल - विबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तु- समीरणश्वासकफांश्च हन्ति ॥ इति । शुष्काणीत्यादि । एतानि गृञ्जनकादीनि शुष्काणि कन्दानि कफवातघ्नानि भवन्ति । एषां गृञ्जनकादीनां फलानि च कफवातन्नानि भवन्ति । इति केचित् । परे खेतानि हरितवर्गोक्तान्याद्रेविश्वभेषजादीनि । शुष्काणि कफवातघ्नानि फलानि चैषां कफवातघ्नानि । एवमादिगुणा द्रष्टव्याः तद्यथा सश्रुते - कटून्युष्णानि रुच्यानि वातश्लेष्महराणि च । कृतान्नेषूपयुज्यन्ते संस्कारार्थमनेकधा । इति वर्ग समापयति- हरितानामित्यादि । एषां हरितानामयं षष्ठो वर्गः समाप्यते ॥ ३३ [इति षष्ठो हरितवर्गः ॥ ६ ॥ ] कृष्णजीरकम् | अजगन्धा यमानी, सुमुखः पर्णासभेदः, अयञ्च धान्यकादीनाम् आर्द्राणां गुणः, शुष्काणान्त्वहारयोगिगणे "कारव्योपकुञ्चिका" इत्यादिना गुणं निर्देश्यति । गृञ्जनकः स्वरूपनालपत्रः पलाण्डुरेव । एतानीति हरितवानि शुष्काणीत्यादिना यद्यपि शुष्काणामपि शुण्ठीप्रभृतीनां गुण उक्तो भवति, तथापि विशेषगुणकथनार्थं पुनरतदभिधानमाहारसंयोगि वर्गे भविष्यतीति न पौनरकम् ॥ ३३ ॥ [ इति हस्तिवर्गः । ६ । ]
❤
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only