SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३८ चरक-संहिता। ( अन्नपानविधिः जाम्बवं कफपित्तघ्न ग्राहि वातकरं परम् ॥ मधुरं बदरं स्निग्धं भेदनं वातपित्तजित् । तच्छुक कफवातघ्न पित्ते न च विरुध्यते । कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् ॥ ३०॥ गाङ्गरुकं करीरञ्च विम्बी तोदनधन्ननम् । मधुरं सकषायञ्च शीतं पित्तकफापहम् ॥ संपक पनसं मोचं राजादनफलानि च । स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च ॥ पक्वं वायु जयेदित्यादिगुणम् । जाम्बवमित्यादि । जाम्बवमिति सामान्यात् वृहत्फलजाम्बवं राजजाम्बवं क्षुद्रफलजाम्बवं भूजाम्बवं वनजाम्बवं काकजाम्बवं सर्व कफपित्तनमित्यादि। मधरमित्यादि। मधुरं बदरं सौवीरबदरं, सुवीरा यमुना नदी, तस्या यस्मिन् देशे स्थितिः, तद्देशजं बदरं सौवीरमिति सुश्र तोक्तं दर्शितम्। सौवीरं बदरं स्निग्धमित्यादिगुणम्। तच्छुष्कमिति तद्भदरमिहानुवत्तेते न तु सविशेणमनुवर्तते। तेन सर्च बदरं शुष्क कफवातघ्नं न तु पित्ते च विरुध्यते। कषायेत्यादि । सिम्बितिकाफलं स्वनामख्यातम् । सुश्रुते च-कपायं स्वादु संग्राहि शीतं सिम्वितिकाफलम्, इति ॥३० गङ्गाधरः-गाङ्गेरुकमित्यादि। गाङ्गेरुकी नागवला तस्याः फलम् । करीरो मरुजमस्तस्य फलम् । विम्बी ओष्ठोपमफलम् । तोदनं फलविशेषः। धन्वनं धन्वनक्षस्य फलम् । मधुरमित्यादिगुणम् । संपक्वमित्यादि। पनसं कण्टकिफलम् । मोचं कदलीफलम् । राजादनफलं पियालफलम् । पक्वान्येतानि खादूनीत्यादिगुणानि। सुश्रुते तु-पनसं सकषायन्तु स्निग्धं स्वादुरसं गुरु। मोचं खादुरसं प्रोक्तं कषायं नातिशीतलम् । रक्तपित्तहरं वृष्यं रुच्यं श्लेष्मकरं गुरु। स्निग्धं स्वादुकषायञ्च राजादनफलं गुरु । इति । दर्शनाद बोद्धव्यम्। तूदम् औत्तरापथिकफलम् । टङ्क काश्मीरप्रसिद्धम् । सिद्धमिति कालवशात् पक्वं; कपित्थविल्वाम्राणामवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात् । बदरं मध्यप्रमाणं तद्धि मधुरमेव स्यात् । गागरुक नागबल फिलम, करीरो मरुजो दुमः, तोदनं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy