________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३६
चरक-संहिता। [ अन्नपानविधिः तालशस्यानि सिद्धानि नारिकेलफलानि च। वहणस्निग्धशीतानि बल्यानि मधुराणि च ॥ मधुराम्लकषायश्च विष्टम्भि गुरु शीतलम् । श्लेष्मपित्तकरं भव्यं ग्राहि वक्तविशोधनम् ॥ अम्ल परूषकं द्राक्षा बदराण्यारुकाणि च । पित्तश्लेष्मप्रकोपीणि कर्कन्धूनिकुचानि च ॥ नात्युषणं गुरु संपक्वं स्वादुप्रायं मुखप्रियम् । संवहणं शीघ्रजरं नातिदोषलमारकम् ॥ द्विविधं शीतमुषणञ्च मधु रञ्चाम्लमेव च ।
गुरु पारावतं ज्ञयमरुच्यत्यग्निनाशनम् ॥ गुण इह नोक्तः। तालशस्यानीत्यादि । सिद्धानि पकतालफलानि सिद्धान्येव पकानि नारिकेलफलानि। अत्र च, विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरदाहमोहम्। इति। मधराम्लेत्यादि। भव्यं पकं कम्मरङ्गफलम् । अन्ये तु खसंघातरूपं चालित्रफलं पकमाहुः। श्लेष्मपित्तकरमम्लखात् । अम्लमित्यादि । द्विधा परूषकं द्राक्षा च मधुराम्लभेदात् ; तत्र मधरयोगुणा उक्ता अम्लयोरिह वचनमिदम् । आरुकाणि कात्तिकपुरे प्रसिद्धानि । बदराणि कोलानि हत्फलानि । ककन्धूस्तु क्षुद्रफलबदरम् । तत्रारुकस्य विशेषमाह । नात्युष्णमित्यादि। आरुकम् आलुवोखरमिति लोके। तच्च द्विविधं शीतमुष्णश्च मधुरं शीतमम्लमुष्णमिति। सुश्रुते-कन्धुकोलबदरमामं पित्तकफापहम् । पक्क पित्तानिलहरं स्निग्धं समधुरं सरम् ॥ पुरातनं तृट्शमनं श्रमघ्नं दीपनं लघु। सौवीरं बदरं स्निग्धं मधुरं वातपित्तजित् ॥ इति । गुवित्यादि। पारावतं कामरूपे प्रसिद्धम् । तदपि द्विविधं, मधुरं मधुरपरूषकं ज्ञयम्। आम्रातम् आमड़ा इति ख्यातम्, आम्रफलसदृशमिति चान्द्रका, एतञ्च द्विविधं-मधुरमम्लञ्च, अन मधुरस्यैव गुणः, अम्लस्य वक्ष्यमाणस्वात्। तालशस्यानीति तालफलानि, यथा-“हरीतक्यादीनां शस्यानि" इति फलमेव शस्यमुच्यते। सिद्धानि पक्कानि, तेन पक्कतालस्य ग्रहणम् । भव्यं कर्मरङ्गं फलं, केचित् त्वक्संहतिफलं वदान्त । आरुकं कार्तिकपुरे प्रसिद्धं ; कर्कन्धूः शृगालबदरी, कर्कन्धूनिकुचयोविच्छिद्य पाठे न नित्यं पित्तश्लेष्मकर्तृत्वं
For Private and Personal Use Only