SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः सूत्रस्थानम् । ६१ सद्भाव इति प्रतिज्ञा। भावा हि स्वस्वधम्प्रवत्तया जायन्ते, भवन्तीति भावा एवोच्यन्ते न तु न भवन्तीत्यभावा उच्यन्ते। स च धर्म इतरेतराभावरूपपृथक्त्वकृत् तद्धम्मवत्तया भावा भवन्तीति भावा एव न खभावा इति प्रतिशायते। तत्र प्रश्नः, कश्चेत्यादि। येन वन धम्मेण भावा भवन्तीति । स खो धम्मः क इति पृष्ट आह, द्रव्येत्यादि ।-वैशेषिके कणादेन यदुक्तं तदनुमत्य स्मृत्वेदमुक्तम्। तत्र तूक्तमिदं, धर्मविशेषमूत्रात् द्रव्यगुणकर्मासामान्यविशेषसमवायानां साधर्म्यवैवाभ्यां तत्त्वज्ञानान्निःश्रेयसम् । पृथिव्यप्ते जोवाय्वाकाशं कालो दिगात्मा मन इति द्रव्याणि। रूपरसगन्धस्पर्शाः संख्या परिमाणं पृथक्त्वं संयोगविभागौ परवापरत्वे बुद्धय इच्छाद्वषो सुखदुःखप्रयत्नाश्च गुणाः। उत्क्षेपणमवक्षेपण प्रसारणमाकुश्चनं गमनश्च ति कर्माणि। सन्नित्यमद्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रवयगुणकम्मणामविशेष इति । द्रव्यगुणकर्मणां सदादि सामान्यमेको धर्म । तलो विशेषश्च पृथक्त्वकृत् । स्वो धम्मो द्रव्यादीनां क्रियागुणवदित्यादि । क्रियागुणवा समवायिकारणमिति द्रव्यलक्षणम् । द्रवयाश्रय्यगुणवान् संयोगविभागेषु अकारणमन्यापेक्षो गुण इति समवायिकारणम् इत्यनुवर्तते। तथा। संयोगविभागेष्वनपेक्षकारणं कमेति विशेषः। ततोऽपि पृथिवयादेविशेषो धर्मः स्पर्शपर्यन्ता गुणाः प्राक् गौतमेनोक्ताः। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः। गन्धरसरूपस्पर्शशब्दानां स्पर्शपय्यन्ताः पृथिवयप्तं जोवायूनामुत्तरोत्तरमेकैकमपोज्य चान्त्योऽन्त्यस्य । इति च पृथक्वकृत् स्वो धम्नः पृथिव्या गन्धो गुणो नैसर्गिकः, अपां रसः, तेजसो रूपं, पायोः स्पर्श इति। गन्धादीनां पञ्चानां स्पर्शपय॑न्ताः पृथिव्यप्ते जोवायूनाम् । तेषामेव गन्धरसरूपस्पशशब्दानामुत्तरोत्तरमेकैकमपोज्झा च पृथिवयप्ते जोवायूनां सांसर्गिका गुणाः, तेन पृथिव्या गन्धो नैसर्गिको रसरूपस्पर्शशब्दाः सांसर्गिका इति पञ्चगुणा पृथिवी गुरुत्वादीनामनभिवयक्तखादिह नोपदेशः क्रियते। एवमपां रसो नैसर्गिकस्तमपोझा च रूपस्पर्शशब्दाश्च सांसर्गिका इति चतुगुणा आपः। द्रवखादीनामनभिव्यक्तखादिह नोपदेशः । तेजसो रूपं नैसर्गिकं, तदपोज्झा च स्पर्शशब्दौ च सांसर्गिकाविति त्रिगुणं तेजः, उष्णखादीनामनभिव्यक्तखादिह नोपदेशः । वायोः स्पर्शो नैसर्गिकः, तमपोज्य च शब्दश्च सांसर्गिक इति द्विगुणो वायू रौक्ष्यादीनामनभिवयक्तखादिह नोपदेशः। अन्त्यः शब्दोऽन्त्यस्याकाशस्य नैसर्गिक एव नास्ति Villi Piticilli Tiilith For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy