SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः सूत्रस्थानम् । प्रसहा भूशयानूप-वारिजा वारिचारिणः । गुरूपणस्निग्धमधुरा बलोपचयवर्द्धनाः॥ वृष्याः परं वातहराः कफपित्तविवर्द्धनाः। हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये॥ . प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् । जीर्णार्थीग्रहणीदोष-शोषार्तानां प्रयोजयेत् ॥ २१॥ तद यथा-आनूपवर्गस्तु पञ्चविधः। तद्यथा-कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्याश्चेति। तत्र गजगवयमहिषरुरुचमरसृमररोहितवराहखड़गिगोकर्णकालपुच्छकोन्द्रन्यङ्करण्यगवयप्रभृतयः कूलचराः। ०। वातपित्तहरा वृष्या मधुरा रसपाकयोः । शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्धनाः॥१॥ हंससारसक्रोश्चचक्रवाक-कुररकादम्बकारण्डवजीवञ्जीवकवकबलाका-पुण्डरीकप्लवशरारीनन्दीमुखीमदगुत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षषुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतचरणप्रभृतयः प्लवाः संघातचारिणः ।।। रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः। सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः ॥२॥ शङ्खशङ्खनखशुक्तिशम्बकमल्लकप्रभृतयः कोशस्थाः ॥३॥ कूम्मकुम्भीरककेटककृष्णकर्कटकशिशुमारप्रभृतयः पादिनः ।। शम्मोदयः स्वादु-रसपाका मरुन्नुदः । शीताः स्निग्धा हिताः पित्ते बच्चेस्याः श्लेष्मपित्तलाः॥४॥ मत्स्या वक्ष्यन्ते। इत्येवंगुणशेषकथनाथं गणश एव सामान्येन विशेषतस्तु पुनरुपदेक्ष्यते। इति । अस्मिंस्तु तन्त्रे प्रसहभूशयजाङ्गलविष्किरप्रतुदवर्गभेदेनोक्तास्ते सुश्रुते जाङ्गलखसामान्यादष्टधा विशेषादुक्ता जाङ्गलादिभेदेन । ये चास्मिंस्तन्त्रे आनूप वारिशयवारिचरवर्गा उक्तास्ते सुश्रुते आनपखसामान्यात् पञ्च विशेषाः कूल. चरादिखसामान्येनोक्ता इति न विरोधः। तत्तत्सामान्येनैतत्सामान्येन ये केचिद् गुणकम्मभेदास्ते च यत्किञ्चिद्वै लक्षण्यान्नाद्रियन्ते कुशलः ॥२०॥ गङ्गाधरः-तथा चाष्टयोनीनां वर्गशो गुणकण्यिाह-प्रसहा इत्यादि। प्रसहादयः पञ्च वर्गाः। गुरूष्णस्निग्धमधुरा बलोपचयवद्धेनाः। वृष्याश्च परमुत्कृष्टं वातहराः, कफपित्तविवढेनाश्च । व्यायामनित्येभ्यो हिताः, ये च नरा दीप्ताग्नयस्तेभ्योऽपि हिताः। इति पञ्चवर्गसामान्यगुणकर्माणि । चक्रपाणि:--प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः, तथा अमांसादाश्च गवादयः । तेन For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy