________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
३२३
हारेणैव फलसाधकत्वान्न रसादिभ्यो द्रव्यस्य प्राधान्य मिति चेन्न यतो द्रव्य प्रधानमारम्भसामर्थ्यात् । द्रव्याश्रितोह्यारम्भा यथा विदारिगन्धादिमाहृत्य संक्षद्य विपचेदित्येवमादिष नतु रसादिष्वारम्भः ।
नन्वारम्भो मध्वरिष्टादौ कालपरिणामेनाम्लादिरसस्यास्ति नह्यारम्भ आहरणक्षोदनादिव्यापा. रमावं किन्तु प्रयोजननिध्यत्तिहेतुसाधन मेव तच्च रसादिष्वस्ति इति चेन्न द्रव्यं हि प्रधानं शास्त्र प्रामाण्यात्। शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुल ङ्गाग्निम न्यौ चेति न रसादय उपदिश्यन्ते इति ।
ननु रसादिहारेणैव द्रव्याणां कार्यविशेषमुपलम्ब योगानामुपदेशे द्रव्यागय पदिशान्ति मिषज इति रसा एव प्रधान मिति चेन्न द्रव्य प्रधानं रसादीनां क्रमापेक्षितत्वात् । रसादयो हि द्रव्य क्रममपेक्षन्ते यथा तरुण तरुणाः सम्पर्ण सम्पर्णा इति । ___नन्वेवं द्रव्यमपि क्रममपेक्ष ते ऽवस्था नां यथा तारुण्ये तरुणं परिणामे सम्पूर्ण मिति चेन्न द्रव्यं प्रधानमेकदेश साध्यत्वात् । द्रव्य णामे कदेशेनापि चर्णादयः साध्यन्ते यथा महारहक्षीरेणेति। न रसानामिति।
For Private And Personal Use Only