SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधरचम्पुकाव्ये यत्पाणिपल्लवघृतासिजलान्निमन्ज च्छत्रुव्रजात्समुदितां जलबिन्दुराजिन् । तारावलीति तु वदन्ति जना मृषेत त्तत्रान्यथा मकरमीनकुलीरकाः के ॥ २४ ।। यस्य च वदनतटे कोपकुटिलित कुटिघटितेऽशरणतया वनं प्रति वावमानानां प्रतिपक्षपार्थिवानां वृक्षरानिरपि वातान्दोलितशाखाहस्तन पतत्रिविरुतेन च राजविरोधिनोऽत्र न प्रवेष्टव्या इति निषेधं कुर्वाणा तामतिकामत्सु तेषु राजापराधभयेनेव प्रवातकम्पमाना विशङ्कटकण्टकेन केशेषु कर्षतीति शङ्कामङ्करयामास । यस्य प्रतिपक्षलोलाक्षीणां काननवीथिकादम्बिनीशम्पायमानतनुसंपदां वदनेषु वारिजभ्रान्त्या पपात हंसमाला, तां कराङ्गुलीभिर्निवारयन्तीनां तासां करपल्लवानि चकपुः कीरशाबकाः, हा हेति प्रलपन्तीनां कोकिलभ्रान्तिभाविताः शिरस्सु कुट्टायितं कुर्वन्ति स्म करटाः, ततश्चलितवेणीनामेणाक्षीणां नागभ्रान्त्या कर्षन्ति स्म वेणी मयूराः, ततो दीर्घ निःश्वासमातन्वतीनां तद्गन्धलुब्धमुग्धमधुकरा मदान्धाः समापतन्तः पश्यन्तोऽपि नासाचम्पकं न निवृत्ता बभूवुः, गुरुतरनितम्बकुचकुम्भभारानतानां वेवसा स्तनकलशसृष्टं काठिन्यं पादपद्मेषु वाञ्छन्तीनां धावनोद्युक्तमनसां चलितपादयुगलप्रसृतनखचन्द्रचन्द्रिकासु संमिलिताश्चकोरा उपरुन्धन्ति स्म मार्गम्, ततो भुवि निपत्य लुठन्तीनां सुवर्ण सवर्णमुरोजयुगलं पक्कतालफलभ्रान्त्या कदर्थयन्ति वानराः इति राजविरोधिनामरण्यमपि न शरण्यम् । किंच । यस्य प्रतापतपनेन चतुर्पु दिक्षु निःशेषिताः किल पयोनिधयःक्षणेन । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy