SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८. जीपंधरचम्पुकाव्ये विराजितं वनदेवतारसपूर्णहेमकरण्डकायमानं परिपाकपाटलफलं पातयितुं प्रयतमानानपराद्धानेकशरनिकरानरपतिकुमारानवलोक्य, लोकोत्तरकोदण्डविद्यापाण्डित्यमण्डिता जीवंधरः करकलितकार्मुकलताविस्फारपूरितदिगन्तरः, सरभसप्रक्षिप्तप्रक्ष्वेडनलक्षीकृतं तत्फलं सशिलीमुखं करेणोपादत्त । उदारः सहकारोऽयं मार्गणाय फलं दिशन् ।। भेने कल्पकतां नो चेत्सुमनस्सेव्यता कथम् ॥ ४१ ॥ - दृष्ट्वा फलं सशरमापतितं कराब्जे जीवंधरस्य शरकौशलपारगस्थ । व्यस्मेष्ट मक्षु नरपालतनूजवर्गः ___ श्लाघावशेन विगलन्निजकर्णपरम् ॥ ४२ ॥ - ततस्तत्समीपमभ्येत्य कलितविनयो राजतनयः, ससाध्वसं, भो भो महाभाग कार्मुकविद्याकोविद, मामज्ञातभवादशसजन'समुचितसल्लापप्रकारमपि मुखरयति श्रीमदीयचापविद्यावैदग्ध्यनिरीक्षणक्षणमनितविस्मयः काञ्चनगौरतावकशरीरसौन्दर्यावलोकनजातानन्दकन्दलश्च । अतस्त्वां प्रार्थये श्रीमन्युक्तं वायुक्तमेव वा । मामकीनं वचो नूनं कर्णदेशे विधीयताम् ॥ ४३ ॥ अत्रास्ति हेमाभपुरी गरीयसी यहजसौधेवधिरात्रि संपतन् । सुधामयूखः कलशार्णवान्तरे पुनर्निवासं कलयन्निवेक्ष्यते ॥४४॥ कुरुविन्दमन्दिरकुलानि संगता न्यरुणस्य बालकिरणैः सहैकताम् । तमसीव हस्तपरिमर्शतः प्रगे। परिनिश्चिनोति पुरि यत्र सजनः ॥ ४५ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy