SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठो लम्बः । पाद्यार्थ्यादीन्दिशति धवलैस्तत्सरस्याः पयोभि रित्येवं श्रीकुरुकुलपतेरादधे भूरिशङ्काम् ॥ २३ ॥ विमानस्योत्सङ्गे विमलवपुषं शान्तिजिनपं विलोक्यान्तर्भक्त्या कुरुकुलमणेस्तुष्टमनसः । दृशौ राकाचन्द्रद्रुतमणिदशां द्रागभजतां युगं पाण्योः प्रापन्मुकुलितपयोजाततुलनाम् ॥२४॥ तदनु, समीपमासाद्य सद्य एवोद्गतपुलकापदेशेन वाञ्छितवदान्यतरो/नावापमारचय्य प्रमदननितनयनप्रसृतबाष्पपयोभिः सेकमिवा. दधानः, कश्चन नागरिकपुरुषः, प्रश्रयभरकलितार्धसाहाय्यकेन प्रणामेन दुरितं धुनानः, करुणाकरेण कुरुवीरेण 'कस्त्वमार्य' इति पृष्टः, तुष्टहृदयः शुभोत्तरमुत्तरं वक्तुमुपादत्त । प्रथिता विभाति नगरी गरीयसी धुरि यत्र रम्यमुदतीमुखाम्बुजम् । कुरुविन्दकुण्डलविभाविभावितं प्रविलोक्य कोपमिव मन्यते जनः ॥ २५ ॥ या क्षेमनगरीत्येवमभिख्यामावहन्त्यपि । पाकवैरिपुराभिख्यां दधाति मणिमन्दिरैः ॥ २६ ॥ तत्रास्ति देवान्त इति प्रतीतो नृपः कृपाचित्रितचित्तगेहः । क्षोणीशकोटीरसुमावलीनां धूलिव्र जैः पिञ्जरिताङ्गिपीठः॥२७॥ यस्मिञ्छासति मेदिनी नरपतौ सद्वृत्तमुक्तात्मता ___ हारेप्वेव गुणाकरेपु समभूच्छिद्राणि चैवान्ततः । लोल्यादन्यकलत्रसंगमरुचिः काञ्चीकलापे परं संप्राप्तः श्रवणेषु खञ्जनदृशां नेत्रेषु पारिप्लवः ॥ २८ ॥ तस्य श्रेष्ठिपदप्राप्तः सुभद्रो वणिजां पतिः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy