SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधर चम्पुका नेत्राम्बुजे तु फलिते हृदयं रसस्य धारामसूत सपदीति विचित्रमेतत् ॥ ३९ ॥ तामेनामुपयम्यायं कुरुसन्तानकुञ्जरः । चिक्रीडाधित्यकाभागे चिरं मोदमहीभृतः ॥ ४० ॥ इति महाकवि हरिचन्द्रविरचिते श्रीमति चम्पुजीवंवरे गुणमालालम्भो नाम चतुर्थो लम्बः । पञ्चमो लम्बः | शत्रुजीवलीकरणेषु दक्षजीवकवलं मनसैव । आलिहन्नथ करी तृणरूपं प्रागिव स्वकचलं विजही सः ॥ १ ॥ कुण्डलेन हतः सोऽयं कुण्डलीकृतदुर्मदः । रोष सोमिकमातेने कटकाश्रितकुञ्जरः || २ | तदेतन्निशम्य विशांपतिर्विशालक्रोधानलं वनौकः सङ्घविजयेन सञ्जातं वल्लकीविजयेन पल्लवितमनङ्गमालासङ्गेन संदीपितं शुण्डालपतिशिरोमण्डलकुण्डलताडनेन जाज्वल्यमान कुमारनिकारेण शिशमयिषुः काष्टाङ्गारः, संगरे भङ्गुरं कुमारं हस्तग्राह गृहीध्वमिति मथनप्रमु खान्नियोज्य, संयोज्य च गजरथतुरगपादातशबलेन बलेन सह प्राहैषीत् । - बलं पुरोधाय रथाधिरूढः प्रचण्डवृत्तिर्मथनश्चचाल | ज्ञात्वा कुमारोऽपि सहायजुष्टो रथी युयुत्सू रिपुमानशे तम् || ३ || गजा जगर्जुः प्रहाः प्रणेदुजिहेपुरश्वाश्च तदा रणाये । कुमारबाहासुखसुप्तिकायाः प्रबोधनायेव जयेन्दिरायाः ॥ ४ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy