SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुथी लम्मः । हाहाकारपराञ्जनाधिरचयत्राज्ञो मदान्धो गजो वेगान्जङ्गमशैलराजगरिमा पौरव्रज प्राविशत् ॥ २७ ॥ करटोद्यन्मदाम्भोभिः मृजन्कल्लोलिनीयुगम् । अधावन्मत्तकुम्भीन्द्रो गुणमालारथं प्रति ॥ २८ ॥ तदा परिजनेषु परिणतकरेणुराजभयेन दूरदूरमपसर्पत्सु, कस्मिविद्धात्रीजने समसुखदुःखतया मां हत्वा सा हन्यतामिति गुणमालायाः पुरतः स्थिते, हतेति शब्दमुखरेपु समीपवर्तिषु जनेषु, करुणापरिणाहितहृदयो जीवंधरः समुपेत्य, केसरीव सिंहनादप्रतिध्वनितदिक्तटो हेलयैव सिन्धुरं भीकरमपि सूकरं विधाय तदीयस्कन्धमलङ्कुवन, कुम्भस्थलसाम्यविलुलोकिषयेव कुम्भस्थले करं, तस्याः स्तनकलशे दृष्टिं, मनसि तत्प्रस्तावं च वितस्तार । मदकलकलभस्य यानतुल्या गतिरिह यूथपयूथिकामकेश्याः । मृदुकरनिभमूरुयुग्ममस्याः कुचयुगमातनुते च कुम्भसाम्यम् ।।२९।। इति मनसि चिन्तयन्नेव पञ्चशरप्रहारपरवशो गजराजमालानमानीय, सहचरैः सह रथमलंकुर्वन्, गजविज्ञानप्रशंसापरैः पारें : स्तूयमानो निजमन्दिरान्तरं प्रविवेश । साक्षात्पञ्चशरं कुमारमतुलं निध्याय रूढान्तरा कामार्ता गुणमालिका च सदनं गत्वा चिरं विद्वला । ध्यायन्ती मनसा तमेव सततं संतापशुप्यन्मुखी पृष्टाप्यत्र सखीजनैर्बहुतरं नैवोत्तरं सा ददे ॥ ३० ॥ बलवदस्वस्था गुणमाला कंदर्पनिन्दामेवमकरोत् कुसुमायुध पञ्च ते कलम्बा नियता लक्ष्यजनस्त्वनेकिकः । इति चेदहमेकिका कथं वा गमितानन्तशरैश्च पञ्चताम् ॥३१॥ इति बहुधा प्रलपन्ती, तीव्रतरमदनसंतापमसहमाना क्षणं घनसा For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy