SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो लम्वः विलीनान्समिति व्याधान्द्रष्टुं दीपा इवागताः ॥ ३० ॥ तदनु निष्णुचापचुम्बिनीवंधराम्बुधरनिरवग्रहनिर्मुक्तशरधाराभिः कालकूटवल प्रतापानले शान्तता नीते, निशितशस्त्रनिकत्तकुञ्जरपदकच्छपाः, भलावलूनहयमल्लाननपयोजपरिष्कृताः मदवारणकर्णभ्रष्टचामरहंसावतंसिताः, कीलालवाहिन्यः समीकधरायां परःसहस्त्रमनायन्त । नित्वा किरातबलमेष यशःप्रसूनै राशाविशालनयनाः सुरभीचकार । क्षीराम्बुदानिव सदा प्रवहत्पयोभिः सिक्तान्तिकान्पशुगणानहरच्च धीरः ॥ ३१ ॥ पुरा खलु यः शम्बरारातिश्चापलालिनीवंधरश्च जगति विश्रुतो बभूव, सोऽयमधुना शबरारातिश्चापलालिजीवंधरश्च संवृत्त इति, न बिन्दुमात्रेणापि विशेषः । पूर्व सारसशरोऽयमधुना सरसशर इत्याकारतो विशेपेऽप्याकारसाम्यमखण्डितमुल्लसत्येवास्येति विचित्रमेतत् । अथ पौराणां हर्षातिरेक एतावानिति गगनतलप्रसारितंवैजयन्तीभुनाभिबोधयदिव मोदोत्तरमेतत्पुरं प्रविश्य स्वयं विशिखाधारस्यापि विशिखाधेयतामास्कन्दतः सकलवयस्यमण्डलमध्यमध्यासीनस्य जीवंधरस्य देहसहकारे शौर्यस्थैर्यधैर्यमञ्जरीमञ्जले कीर्तिसौरभ्याकर्षिता: पौरजानपदनयनपुप्पंधया निरन्तरमापेतुः । नन्दगोप इति विश्रुतमेघः संमदाम्बुनिधिमाशु निपीय । वारिपातमकरोत्करपझे जीवकस्य शुभलक्षणजुष्टे ॥ ३२ ।। जीवंधरोऽपि नन्दगोपेन पातितामच्छवारिधारां तत्सहचरी मन्दस्मितप्रकाशितकुन्दकुद्मलसचिवीचिस्नापितामिव ‘पद्मास्यो योग्यः' इति शुद्धवर्णा वचोधारां पातयन्नेवोरीकुर्वन्, दूरीस्तस्टहः 'मम For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy