________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये तथा तथावर्धत मोदवाधिरुद्वेलमूरव्यनिकायभर्तुः ॥ ९९ ॥
उत्तानशयने विभ्रन्मुष्टिं तुष्टिकरः सुतः । उद्यत्कुड्मलयुग्मश्रीपद्माकरतुलां दधौ ॥ १० ॥ मुग्धस्मितं मुखसरोजगलन्मरन्द.
धारानुकारि मुखचन्दिरचन्द्रकाभम् । पित्रोः प्रमोदकरमेष बभार सूनुः
कीर्तेर्विकासमिव हासमिवास्यलक्ष्म्याः ॥१०१ ॥ पयोधरं धयन्सूनुः पयो गण्डूषितं मुहुः । उद्गिरन्कीर्तिकल्लोलं किरन्निव विदिद्युते ॥ १०२॥ सञ्चरन्स हि जानुभ्याममले मणिकुटिमे ।
प्रतिबिम्ब परापत्य बुद्धया संताडयन्बभौ ॥ १०३ ॥ क्रमेण सोऽयं मणिकुटिमाङ्गणे नखस्फुरत्काञ्चिझरीभिरश्चिते । स्खलत्पदं कोमलपादपङ्कजक्रमं ततान प्रसवास्तुते यथा ॥१०४॥ तावत्सुनन्दापि जलगर्भेव कादम्बिनी रत्नगर्भेव वसुमती फलगर्भेव वल्लरी तेजोगर्भेव शुनासीरकाष्ठा श्रेष्ठिसती शनैरन्तर्वत्नीधुरामाविभ्राणा क्रमेण नवमासेष्वतीतेषु नन्दान्यं नाम नन्दनं जनयामास ।
तत्सौभ्रात्रेण विभ्राजन्मन्मनालापलालितः ।
जीवकस्तनयैरन्यैर्मुदा चिक्रोड पांसुषु ॥ १०५ ॥ अथ पञ्चमे वयसि सञ्चरन्प्रत्यक्षपञ्चशरः समुदञ्चितव्यक्तवचनप्रपञ्चः स्वयमागतस्य सकलकलाकल्लोलिनीशैलस्यार्यनन्दिनामधेयस्याचार्यवर्यस्योपकण्ठे कण्ठीरवकिशोराकृतिरयं प्रत्यूहव्यूहपरिहाराय परिकलितसिद्धनमस्यः सिद्धमातृकाप्रसिद्धां सरस्वती परिशीलयामास ।
लेभे जीवंधरो वाणी क्रमनिर्जितसिन्धुरः ।
For Private And Personal Use Only