SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्बः । भीकरं तत्पुरप्रेतागारमवलोकमाना सा नरदेवमहिषी मूर्छापहृतचेतना बभूव । . अनानती कश्मलपारवश्यात्प्रसूतिपीडां नरपालनाया । मासे तदा वैजनने दिनेऽस्मिन्प्रासूत सूनुं तपनं यथा द्यौः ।।८।। तदा जनकराज्यश्रीर्दष्टुं मूर्तिमिवास्थिता । सुतस्य भाग्यसंपदा देवता काचिदागता ॥ ८६ ।। दिशि दिशि विसरद्भिः पुत्रतेजोविलास. बहलतिमिरजाले नाशिते तत्क्षणेन । विलसितमणिरूपा देवताक्लप्तरूपाः सुतरुचिपरिभूता मङ्गलार्था बभूवुः ॥ ७ ॥ तस्या मुखेन्दोरवलोकनेन शोकाम्बुधिवृद्धिमवाप देव्याः । अभ्यग्रभावः किल बान्धवानां सुखस्य दुःखस्य च वृद्धिहेतुः ॥८॥ __ हा मनोजाकाररूप हा महागुणमणिहीप हा मानसविहारराजहंसस्वरूप हा मदनकेलिचतुरभूप मम प्राणैकरूप क्वासि क्कासीति विलपन्ती शोकविषमोहिताङ्गी लताङ्गी तां देवतापि लोकोत्तरतोकोतममहिमवर्णनपीयूषपरिषेचनेन समुन्जीवयन्ती सुवर्णसवर्णेषु तदीयाङ्गेषु लसदूर्णाप्रमुखविलक्षणलक्षणप्रदर्शनेन प्रत्याययन्ती तनुजवर्धनोपायचिन्तासंतमसदूरीकरणधीरतरमित्थं गिरमुत्थापयामास । पुत्रस्य वर्धनविधौ विजहाहि चिन्तां ___ संवर्धयिष्यति सुतं तव कश्चिदेनम् । चन्द्रश्चकोरमिव चूततर्यथा वा बालं पिकं कमलिनीविसरो मरालम् ॥ ८९ ॥ तदात्व एवात्र मृतं तनूनं विमृज्य गन्धोत्कटवैश्यनाथः ॥ योगीन्द्रवाक्यस्मरणेन सूनुं गवेषयन्लोचनगोचरोऽभूत् ।। ९० ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy