SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाव्ये चान्द्री कलेव शुभ्राभ्रपाई देवि जहीहि भो ।। ४८ । इत्यादिप्राबोधिकपद्यालापैर्मङ्गलवाद्यनिनादैश्च कादम्बिनीकलकलैः केकिकान्तेव स्वप्नेन प्रबुद्धपूर्वापि सा प्रबुद्धा विधाय च प्रत्यूषकत्य मभ्यग्रमभ्येत्य कृतवैभातिकविधये महासुधिये गुणमन्धराय सत्यंधराय निजकान्ताय महीकान्ताय स्वप्नोदन्तमिमं निवेदयामास । आर्यपुत्र जितामित्र दृष्टाः स्वप्मास्त्रयो भृशम् । वाचालयन्ति मां चूतकोरकाः कोकिलामिव ॥ ४९ ॥ आर्यपुत्र सुत्रामविभव विभावर्याः पश्चिमे यामे कश्चन तरुरशोकोऽपि केनचित्कुठारपाणिना छेदनशोकं प्रापितो जातश्च हाटकमकुटवटितो बालाशोकविटपी तत्परिसरेऽष्टापि माला दृष्टा इति । तमिमं स्वप्नोदन्तमाकर्ण्य, विचिन्त्य च शुभाशुभोदर्कफलम्, आत्मापायशङ्काशङ्कनिचितचेतनो हर्षशोकरसोन्मन इव चन्दनविषरसाभ्यां मनस्यालिप्त इव कमलिनीकण्टककमलदलकलितपक्षः सित पक्ष इव स्थितोऽपि, अहार्यधैर्यचातुर्यावगाढमतिरयमम्भोनिधिगम्भीरः कुम्भिनीपतिरशुभफलमाद्यस्वप्नं मनसिरुत्य शुभफलं स्वप्नद्वयमन्तःकृतक्षुद्रदन्तो दन्तावल इव दन्तयुगलमुदश्चयामास । पुत्रं नृपालतिलकं कुलरत्नदीपं __ प्रामोषि देवि सुररानदिशेव सूर्यम् । दृष्टो यतः समकुटो नवबालवृक्षः ___ कान्ता भवन्ति खलु तस्य तदष्टमालाः ॥ ५० ॥ श्रुत्वा च देवी श्रवणायताक्षी पत्युर्वचः सा पुनरावभावे। जिज्ञासते मे हृदयं प्रियाद्यस्वप्नस्य साध्यं प्रतिपादयाद्य ॥९१! इति निजवल्लभाप्रश्नमौदासीन्येनोत्ररयति महीवलभे. तदितिज्ञा सा कुरङ्गलोचना, तरङ्गितदुःखपूरपरिमिलितान्तरङ्गा करिनितम्बिनीब For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy