SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । १०७ रनेकपुरुषपरिवृत इव शोशुभ्यमानः संमन्त्रयितुमारेभे । ततो विदितमेदिनीकमनभावकूलंकषा नयाम्बुनिधिपारगा जगदुरञ्जसा मन्त्रिणः । महीश स हि वञ्चनाकलितचित्तवृत्ती रिपुः प्रतारयितुमद्य नो विनयपत्रिका प्राहिणोत् ॥ ६ ॥ कदाचिन्मत्तदन्तावलः पाटितालानो निर्मूलितनिगलः संक्षुभितकटकः सकलभटघटादुरासदः सत्यंधरवसुंधरापतिमन्दिरोपकण्ठसञ्चा रः, कोपान्निर्गतं तमेनमस्मत्प्राणायमानं निहत्य, निखिलपौरलोकंशोकपारावारे मामकीर्तिपूरे च निमन्जयामास । अधेन मयि विस्तृतां मिलदकीर्तिमेतां भवा न्प्रभाकर इवाम्बुनाकरवरे हिमानी तताम् । विनाशयितुमर्हति क्षितिपते दयावारिध ततः पुरमुपागतो मम च मित्रतां लालय ॥ ७ ॥ इति शात्रवसंदेशमाकर्ण्य कन्दलितमन्दहासो गोविन्दमहीपति. जीवंधरवदनारविन्दनर्तितनयनखजनो बभूव । नृप मातुल निःशङ्कं मद्भुजोष्मा निरङ्कुशः । इमं न सहते शत्रु तत्कालस्तु प्रतीक्ष्यते ॥ ८॥ इति कुरुवीरवचनचातुरीनिशमनधीरधीरमना धरापतिश्चतुरङ्ग. बलेन राजपुरी प्रति गमनं तत्र निजनन्दिनीस्वयंवरततनं नाना. देशनरपतिसंमेलनमरातिनिधनं च निश्चित्य काष्ठाङ्गारेण संजात. सख्यं प्रख्यापयन्डिण्डिमं संताडयामास । चलन्तमिव सागरं निजबलं नराणां पति. विलोक्य स समादिशन्निखिलतः प्रयाणोद्यमम् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy