SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो लम्बः। निर्याय तस्मादारामान्मर्यादातीतकौशलः । वार्धकं रूपमास्थाय विवेश पुरि कौरवः ॥ ६ ॥ विरलदशनपङ्क्तिः कम्पमानाङ्गयष्टिः प्रतिकलनिमिषेणास्पष्टदृष्टिः स वृद्धः । गलविकसितकासः श्लेप्मखण्डं वमन्स पलितविरलकेशो दण्डचारी चचार ॥ ७ ॥ तत्र रथ्यासु प्रविशन्तम्, भुजगनिर्मुक्तनिर्मोकनिकाशचर्मविचित्रितम्, पुरो हस्तावलम्बितदण्डेन पश्चादतिकुब्जतनुदण्डेन समौर्विकं कार्मुकं तुलयन्तम्, शुक्तिकाभस्मधवलपलितकेशपाशेन तिरोवेपथुकलितेन मस्तकेन पूर्वतनरूपस्मरणाधुनातनरूपनिरीक्षणजनिताद्भुतवशेन मनुमाहात्म्यं शिरसा श्लाघमानमिव विराजमानम्, गलरन्ध्रनिरुद्धश्लेप्मखण्डान्यतिप्रयत्नेन कुहकुहारावेण सहानवरतमुहमन्तम्, स्थाविरं रूपमादधानमपि शनैः शनैर्गच्छन्तम्, सुरमञ्जरीप्राप्तिदूतीभूतायां जरायामभीकमपि जराभीरुम्, इमं स्थविरमवलोक्य, पौरेषु केचिद्वैराग्यपरायणाः, इतरे विलसत्करुणाः, संबभूवुः । क्रमेण सोऽयं कपटद्विजातिवृद्धो गृहद्वारभुवं प्रपेदे । यस्यान्तराले सुरमञ्जरी सा चकास्ति चञ्चन्मणिदीपिकेव ॥ ८ ॥ तत्र दौवारिकाभिः किमत्रागमनफलमिति पृष्टः कुमारीतीर्थमागमनफलमिति प्रत्युत्तरेणाट्टहासमेदुरवदनान्प्रतिहारिकाजनान्विदधानः कृपया ताभिरनिरुद्धोऽपि कामदेवस्तन्मन्दिरान्तरमगाहिष्ट । अन्तः कासांचन स्त्रीणां मा मेति प्रतिषेधनम् । अशृण्वन्निव बाधिर्यादाविवेश शनैः शनैः ॥ ९॥ तदनु भयाकुलाः काश्चन कमललोचनाः झणझणात्कारि For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy