________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीया प्रेममैव्योरभिनयः । प्रेम । तदेहि । इति निष्कान्ते ।
प्रवेशकः । ततः प्रविशति गृहीतसूत्रधारभूमिको हरिदासः । कियद्दरे उपविष्टे अलक्षिताऽऽकारे प्रेमभक्तिमैत्या च । सूत्र। पुष्पाञ्जलिमञ्जली कृत्वा । भासा भास्वरयन् दिशो विशदया कान्तिं विजश्रेणिजा विभ्राणः परितोलसत्परिमलः प्रोद्दामसन्तोषभूः।
शुद्धः पादसरोरु भगवतः पुष्टिं नखेन्दुश्रियां तन्वन् हास इवैष नाट्यरहसः पुष्पाञ्जलिः कीर्यते ॥ इति तथा करोति । प्रेम। निर्वर्ण्य। सुविहितमेव विहितं भवता। यद्यपि नेपथ्यएव नान्दी पठिता तथापि रङ्गपूजाप्रसङ्गेन भगवत्पद एव पुष्पाञ्जलिः कीर्णः । पश्य वत्से पश्य ।
हारी कण्ठे श्रवणयुगले कुण्डली चावतंसो स्रग्वी भूयस्युरसि भुजयोरङ्गदो कङ्कणी च । अप्युष्णोषी शिरसि पदयोनूपुरी नाट्यलक्ष्या
मूर्तस्तेजोभर इव पुरो हारिदासप्रतीकः ॥ मै। देवि ण कल असत्याओ मग्गो (१) । प्रेम। श्रूयताम्।
शास्त्रीयः खलु मार्गः पृथगनुरागस्य मार्गाऽन्यः । प्रथमोऽईति सनियमतामनियमतामन्तिमो भजते ॥
(१) देवि न खलु अयं शास्त्रीयो मार्गः।
For Private And Personal Use Only