________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमा कल्यधर्मयोरभिनयः । नारायणस्यैष पुरा पराभवे गतः स्वयं तेन पराजितोऽभवत् । नवैजगन्मोहनमोहनं हरि
देहम्मतो मोहयितुं नमीशते ॥ तथापि ते मयैव नियुक्ताः सन्ति प्रतिज्ञातच्च तैः सति शिशतापगमेऽस्माभिरयं पराभवनीय इति तदप्यसम्भाव्यमेव। यतः
आरम्भ एव वयसोऽभिनवस्य नव्या लक्ष्मीमिव द्युतिमती स विहाय भार्याम् । सम्पालयन्निजनिदेशमथो गयायां
यातश्चकार जनकस्य परेतकार्यम्॥ अपि च।
तत्रैव दैववशतः समुपेयिवासन्यासीन्द्रमोश्वरपुरीमुररीचकार। शिक्षागुरुर्णरुतया दश वर्णविद्या
मासाद्य माधवपुरीन्द्रवां वशीशः । अपि च ।
आगत्य स स्वभवनं प्रियसम्प्रदायैः श्रीवासरामहरिदासमुखैः परीतः । गायन्नटन्नभिनयन् विरुदन्नमन्द
मानन्दसिन्धुषु निमज्जयति त्रिलोकीम्। कथमत्र कामवराकोऽवसरमुपैतु।
For Private And Personal Use Only