SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य २३४ विष्कम्भकः । ततः प्रविशति शिवानन्दस्तत्स यियासवः किय न्तोऽन्ये च । शिवा । तत्रैकं प्रति । अये त्वं कुतोऽसि । सः। महात्मन् गोवर्द्धनदासेनाहं त्वत्समीपं प्रेषितः । शिवा । श्र ज्ञातम्। रघुनाथदासे । द्देशार्थं गमिष्यति भवान् । सः। अथ किम्। शिवा । किं तदुद्देशेन | अन्यः । महाशय स त्वया परिचीयते । शिवा । श्रूयताम् । श्राचार्य्येी यदुनन्दनः सुमधुरः श्रीवासुदेवप्रियस्तच्छिष्यो रघुनाथ इत्यधिगुणः प्राणाधिको मादृशाम् । श्री चैतन्यक्कृपातिरेक सतत स्निग्धः स्वरूपानुगो वैराग्यस्य निधिर्न कस्य विदितो नीलाचले तिष्ठताम् ॥ अपि च । यः सर्व्वलोकैकमनेोऽभिरुच्चा सौभाग्यभूः काचिद कृष्टपच्या । यत्रायमारोपणतुल्यकालं तत्प्रेमशाखी फलवानतुल्यम् ॥ तथाऽपि आगच्छ मयैव प्रतिपाल्य नेतव्योऽसि यावदद्वैतदेवाज्ञा न लभ्यते तावदेव विलम्बः । इति चिन्तयति । ततः प्रविशति गन्धर्व्वः । गन्धर्व्वः । अये अयमयं शिवानन्दः । तद्यावदुपसर्पमि । इत्युपसर्पति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy