SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमाझे वैदेशिकगन्धर्वयोरभिनयः। २२६ जगन्नाथः शिशयिषुरपि भगवन्तं प्रतीक्षते तत्त्वरितमेव तमवलोकयन्तु। श्रीचै। एहि पुरीश्वर एहि । इति सङ्घः सह निष्क्रान्तः । इति निष्कान्ताः सर्वे । इति मथुरागमनो नाम नवमोऽङ्कः ॥ दशमाङ्कः। নন: মনিমুনি কাহিত্মিঃ। वैदेशिकः । श्रुतं मया प्रत्यब्दमेव गुण्डिचासमये अद्वैताचार्यादयः सर्वे श्रीकृष्णचैतन्यदर्शनार्थं गच्छन्ति। तेषामभिभावकतया शिवानन्दनामा कश्चित्तस्यैव भगवतः पार्षदो वमनः कण्टकायमानानां घट्टपालानां घट्टदेयादिनिघ्नविघ्ननिवारक आचाण्डालमपि प्रतिपाल्य नयति तदहमपि तमनुसन्दधामि यथा तस्य सङ्ग एव गम्यते । इति कतिचित्पदानि गत्वा । अये पुरतोऽयं समीचीनो जन आलोक्यते तदयमेव प्रष्टव्यः । इत्युपसर्पति। ततः प्रविशत्यदैतसेवकः कश्चिद्गन्धर्व नामा। गन्धर्वः। अये नियुक्तोऽस्मि स्वामिनाऽढतेन । यथा आयातः पुरुषोत्तमस्य गमने कालः शुभाऽयं वयं यामः सत्वरमेव सम्प्रति शिवानन्दस्त्वया भण्यताम् । प्रस्थानस्य दिनं विधाय लिखतु कैकत्र सर्व वयं गच्छन्तः सहसा भवेम मिलिताः पश्चात्युरोभावतः ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy