SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २०४ चैतन्यचन्द्रोदयस्य भगवान् । राजानं परित्यज्य तत्कलकलाकलित रथ प्रस्थान सत्वरः पुनर्जगन्नाथदिदृक्षया तथाविश्वसानन्दस्य एव निष्कामति । Acharya Shri Kailassagarsuri Gyanmandir सर्व्वे । यथायथं तमनु निष्कामन्ति । गोपी । उपसृत्य । महाराज जगन्नाथ दर्शनार्थं गतो देवः सम्प्रति भवन्तोऽपि चलितुमर्हन्ति । इत्यानन्दतन्द्रितं राजानमादाय निष्क्रान्तः । इति निष्कान्ताः सर्व्वे । प्रतापरुद्रानुग्रहो नामाष्टमोऽङ्गः ॥ नवमाङ्कः । ततः प्रविशति किन्नर मिथुनम् । पुरुषः । प्रिये गतागतेभ्योऽपि सम्बत्सरेभ्यः खलु जगन्नाथस्य गुण्डि चोत्सवः परम रमणीयेो दृष्टः । स्त्री । कथम्बि (९) । पुरु। अस्मिन्नब्दे तु मूर्त्तिमतानन्देनैव कनकगिरिगारेण यतीन्द्रवेषधारिणा भक्तावतारेण श्रीकृष्णचैतन्येन महोत्सवा ऽयं सुरसत्वेन परमरमणीयो विहितः । स्त्री। हड्डी हवी अहं कथं सङ्ग ण णोदा । मए दहु पारिदं (२) । पुरु। प्रिये आगामिन्यब्दे दर्शनीया भवत्या । १ कथमिव । २ हा धिक् हा धिक् अक्षं कथं सङ्गे न नीता । मया द्रधुं न प्राप्तम् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy