________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
चैतन्यचन्द्रोदयस्य हृदयमिव महः समाधिभाजामुदयगिरेरिव शीर्षमुष्णरश्मिः। अयमखिलदृशां रसायनश्री
रथमधिरोहति नीलशैलनाथः॥ पुनर्निरूप्य ।
अद्वैताद्यैरखिलसुहृदां मण्डलैर्मण्यमानो गायद्भिस्तैः कतिभिरपरैः श्रीस्वरूपप्रधानैः । श्रीमदकेश्वरमुखसुखाविष्टभूयिष्ठबन्धुः सिन्धुः प्रेम्णामयमिह नरीनति गौरो यतीन्द्रः॥ नेपथ्ये कलकलः । गोपी। सहर्घम्। गौडाख्यैरथ कर्षिभिर्जनचयैरादाय वामे करे हेलोल्लासितपीनरज्जुपटली सङ्कर्षणव्याजतः। स्थायंस्थायमहो कचिद्रुततरं धावत्यमन्दं कचि
द्धावंधावमहा स्थितः स्थिरतरं खेच्छावशः स्यन्दनः ।। पुनर्नेपथ्ये सङ्कीर्तनकोलाहलः। गोपी। यालोक्य सकौतुकम्।
प्रचलति जगन्नाथे गौरोऽपसर्पति सम्मुखात् स्थितवति जगन्नाथे गौरः प्रसर्पति तत्पुरः। अतिकुतुकिनावेवं देवो परस्परमुत्सुको
कलयत इव क्रीडां नीलाचलेन्द्रमुनीश्वरौ ।। पुनर्निभाल्य । अहो।
For Private And Personal Use Only