SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना। शाम्लेषु गूढतयोढतयोत्तमत्वेन स्थितमपि सच्चिदानन्दधनविग्रहो नित्यलीलोऽखिलसौभगवान् भगवान् श्रीकृष्ण एव सविशेषं ब्रह्मेति तत्त्वं तस्योपासनं सनन्दनाद्युपगीतमविगीतमविकलः पुरुषार्थस्तस्य साधनं नाम नामसङ्कीर्तनप्रधानं विविधभक्तियोगमाविर्भावयितुं भगवान् चैतन्यरूपी चैतन्यरूपीभवनाविरासीत्। पारि। भाव किं तेनेह तेने हरिणा स्वाऽभिमत-मतव्यञ्जको ग्रन्थः । सूत्र। यद्यपि को नवेद वेदकर्टत्वं भगवतस्तथाऽपि खल्वन्तर्यामी यामोहने प्रेरणा न खनु सा वाह्योपदेशतो देशतो वा कालतश्च परिच्छिन्ना भवितुमर्हति । पारि। भाव तर्हि कथं तत्रैवोदारमते रमते न सर्वः। सूत्र। विविधवासना-सनाथो हि लोको लोकोत्तरे वर्मनि कथं सर्व एव प्रवर्त्तताम्। वासनाबद्धा श्रद्धाऽऽश्रयते हि भेदकता मतेरिति। पारि। भाव भक्तियोगो योऽगोचरः शास्त्रकृतां स च सचमत्कारं ज्ञानमेव जनयति तस्य ब्रह्मकैवल्यं बल्यं फलमिति को भेदः। सूत्र। मारिष “एवंव्रतः स्वप्रियनामकीयाज नचित्त उच्चैरित्यादिना” भगवन्नामसङ्कीर्तनादिरूपस्य भक्तियोगस्य योऽगस्य रतिजनकभावः स खलु पार्षदभावंभावंभावमवतिष्ठते। तथा च "तैर्दर्शनीयावयवै”रित्यारभ्य “पश्यन्ति ते For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy