SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य चित्रोत्पलं ये मनुजाः समूढाः। किं तैर्थिकास्ते परचक्रजाः किं श्रुत्त्वैव कोलाहलमागतोऽस्मि । साळ । तैर्थिका एव अन्यथा पुरैव वार्ताऽभविष्यत् तदनुमीयते गौडीया एवैते भगवतः श्रीकृष्णचैतन्यस्य प्रियपार्षदाः। भवतु महत्येवासो मधुरगोष्ठीगरिष्ठानां भविष्यति भगवता सह काऽपि गोष्ठी। नेपथ्ये । कलकलः। सार्च। महाराज सत्यमेवामी नरेन्द्रसरस्तीरं समायाता यदयमानन्दकोलाहलः श्रूयते। राजा । सत्यमेवैतत्। सार्व। महाराज यदि रोचते तदा वडभीमारुह्य पश्यन्तु कौतुकम्। राजा। यथारुचितं भवते। इति वडभोमारा पन्थानमवलोक्य च। सार्वभौम क एष भगवनिर्माल्य-मालामादाय त्वरमाणस्तैर्थिकानामभिमुखं धावति। सार्च। अयं दामोदरो भगवच्चैतन्यस्य प्रियपार्षदः। भगवता अद्वैतादिप्रियसुहृदामागमनं श्रुत्वा भगवत्प्रसादमालया पुरस्कृत्य तानेव समानेतुमयं प्रेषित इव लक्ष्यते। राजा । एवमस्ति । कोऽपि तत्र भगवच्चैतन्यानुग्रहपात्रम् । सार्व। अथ किम्। अन्यथा कथमेवं स्यात् । तदाज्ञापय गोपीनाथाचा-हनाय। तेनैव सर्व्व परिचोयन्ते। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy