________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठा भगवन्मुकुन्दाद्यभिनयः ।
१४७
कृष्णचैतन्यदेवस्य निकटे । इति । भवतु तचैव यामि । इति
कतिचित्पदानि गत्वा पुरोऽवलोक्य | अहो अयमेष आचा भविष्यति । इत्युपसर्पति । ततः प्रविशत्याचार्य्यः ।
श्रचा । अहो जातप्रायेोऽयं समयः शयनात्थानस्य तदहं त्वरयामि भगवन्तम् ।
पुरुषः । उपसृत्य । आचार्य भट्टाचार्य्यं विज्ञापयति श्रीकृष्ण चैतन्यदेवो यथा भगवतो जगन्नाथदेवस्य शय्योत्थानं पश्यति तथा त्वयैव सङ्गे कृत्वा यतनीयम् ।
गोपी । यथाऽऽज्ञं करवाणि । इति श्रीकृष्ण चैतन्यदेवं त्वरवितुमुपसर्पति । ततः प्रविशति सानुचरो देवः ।
देवः । मुकुन्द विलोक्यतां को विलम्ब आचार्यस्य । गोपी । एषोऽहं भगवन्तं प्रतीक्षमाणो वर्त्ते 1
भग। तदग्रे गम्यताम् ।
आचा। तथाकृत्वा । भगवन्नित इतः । इति प्रवेशं नाटयित्वा जगन्मोहनमासाद्य । देव पश्य ।
तत्कालीनकवाटवाट निविडोद्वाटे विनिष्क्रामता गर्भागार गरिष्ठसौरभभरेणामोदमभ्युद्दमन् । निद्राभङ्गभृतालसो मुखमिव व्यादाय शेषे ऽनिशो जृम्भारम्भमिवातनोति स इयं प्रासाद एष प्रभोः ॥ श्रपि च । देव आश्चर्य्यमाश्चर्यम् ।
दीपाभावघनान्धकारगहने गम्भीर गम्भीरिका कुक्षौ तल्पत उत्थितस्य जयतो लक्ष्मीपतेर्लेीचने ।
U 2
For Private And Personal Use Only