SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठा भगवन्मुकुन्दाद्यभिनयः । १४३ सार्व्व । तदचमपि माध्यन्दिनकर्म्मणे प्रयामि । इति सि ष्यो निष्कान्तः । गोपी । मुकुन्द एह्येहि । इति परिक्रम्य । भो भुकुन्द भट्टाचार्य्यवाग्वज्रमद्यापि मे हृदयं कृन्तति यदि परमकारुणिकेन भगवता तदुद्धियते तदैव मे मना निर्व्वति । मुकु । किमशक्यं तस्य भगवतः । गोपी । तदेहि श्रीजगन्नाथ दर्शनार्थं प्रयातं भगवन्तमनुसराव । इति निष्कामतः । नेपथ्ये । अहो यद्भुतम् । तुङ्गमृङ्गयुवसङ्गत फुल्लत्पुण्डरीकवरलोचनलक्ष्मि । हिङ्गुलस्त्र पितशुक्लचतुर्थी - शोतदीधितिकलाधरविम्बम् ॥ श्रपिच । चारुकारुणिकमारुचिराङ्ग ब्रह्मदारुमयमेतदुदेति । आहतोऽस्य रुचिक्रन्दलवृन्दै - रिन्द्रनीलमणिदर्पणदर्पः ॥ गोपी । श्रये श्रीमुखदर्शनं जातमिव यदमी नित्यानन्दादयो मिथेो निर्व्वर्णयन्ति । पुनस्तत्रैव । अन्योन्येक्षणरागरञ्जिततया है। निर्निमेषेक्षण राजेते जगतः पती उभयतो निस्पन्द सर्व्वीङ्ग कौ । दारुब्रह्मणि लीयते किमु नरब्रह्मेतदाहो नरब्रह्मण्येव हि लोयते शिव शिव ब्रह्मैव वा दारवम् ॥ For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy