SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थाङ्के यदैतश्रीवासाद्यभिनयः। अद्वैतः । भूतावेश-विवश-निखिनेन्द्रियवृत्तिर्भगवदावेशविसंष्ठुलश्च समानमेव भावमादधाति । यतः खलु यावत्तस्मिन् दिवसे भगवदावेशेन यन्मया नर्त्तितं तज्जनमुखादेव साम्प्रतं श्रुत्वा प्रतीयते सन्दिह्यते च । तेनाव्याहतप्रभावोऽयं भगवान् विश्वम्भरः । वस्तुतस्तु कोटि-कोटि-जगदण्डघट-घटन-विघटन-नाटक-परिपाटी-पाटवस्य निजचरित-ललित कीर्त्ति-सुधा-धावित-जगज्जन-हृदयावट-घटमान-तमाकाटवस्य भगवतस्तथैव लीलायितं खलु प्रत्यक्षानुमानापमानशब्दार्थापत्त्यैतिहादिप्रमाणनिवहैरपि न प्रमातुं शक्यते विना तस्यैवानुयहजन्यज्ञानविशेषम। तेन तदानीन्तनमलौकिक-चमत्कार-कारणमस्मन्निष्ठमपि नटन-लीलायितं नास्माकमनुभवगोचरस्तयवसितम्। तेन यास्यन्ति केऽपि मोहं विवदिष्यन्ते च तैः समं केचित्। केचन संदर्भविदो रहस्यमिदमित्यवैष्यन्ति॥ इत्यूईमवलोक्य । अहो चरमाचल-शिखर-चम्बी लम्बमानोऽयं भगवान् मरीचिमाली। तथा हि नाम्नैव मे त्वमसि किन्त्वखिलग्रहाणां विश्रामपात्रमिति तत्पतिनाऽभिशस्ता। तत्प्रत्ययाय परितप्तमयो दधाति सन्ध्यार्कविम्बक्रपटादिव वारुणी दिक॥ अथ वा। सायाङ्गसङ्गसुखलुप्तधियः प्रतीच्याः शोणाभ्रवाससि समच्छसिते नितम्बात् । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy