________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य कस्त्वं भो ननु माधवः कथमहो वैशाख आकारवान् मुग्धे विधि जनाईनोऽस्मि तदिदं ब्रूते वनावस्थितिः । मां गोवईनधारिणं न धरणा को वेत्ति हुं वर्द्धनं हिंसा हे वृषहन विभर्षि तदघदारैव गोवर्द्धनम् ॥ प्रेम । अहो कौहल्लम्।
येयं नटेरप्यभिनीयमाना लोला हरेरेति रसायनत्वम्। सा यत् स्वकीयैः स्वयमोश्वरेणा
भिनीयते तत् किमुदाहरामः॥ अपि च। सामाजिकानां हि रसो नटानां
नैवेति पन्थाः कृतिषु प्रसिद्धः । हन्ताभयत्वे रसवित्त्वमेषा
मलौकिके वस्तुनि को विरोधः ॥ अपि च। अलौकिकाल्लौकिकमेव शौरे
वृत्तं चमत्कारि तदेव लीला। आकर्षकत्वं हि जगज्जनाना
मलौकिकत्वस्य स कोऽपि हेतुः॥ इति सविस्मयमालोकयति। कुसु। अइ कुडिले दुब्विणीदे ललिदे मह वप्रस्मो दुट्टाआरोकिदो। ता चिट्ठ चिट्ठ (१) ।
१ अयि कुटिले दुर्विनीते ललिते मम वयस्यो दुशाकारः कृतः । तस्मात् तिष्ठ तिछ।
For Private And Personal Use Only