________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३५ ] और भी इन महाराज कृत श्रीसूर्यप्रज्ञप्ति सूत्रा वृत्तिके पृष्ठ १११ से ११२ तक तत्पाठ
युगसंवत्सरेणमित्यादि। ता युगसंवत्सरो युगपूरकः संवत्सरपंधविधः प्रज्ञप्तस्तद्यथा। चंद्रश्चांद्रोऽभिवद्धि तश्चांद्रोऽभिवर्द्धितश्चैव ॥ उक्तं व ॥ चंदो चंदो अभिवढिओय चंदोभिवडिओ चेव पंचसहियं युगमिणं दिढते लोक दंसीहि ॥ १॥ पढम बिइयाउ चंदा तइयं अभिवढि वियाणा हि चंदेचेव चउत्य पंचममभिवढियं जाण ॥२॥ तत्र द्वादशपौर्णमासी परावर्ताया यावता कालेन परिसनाप्तिमुपयांति तावत् कालविशेषश्चन्द्र संवत्सरः ॥ उक्तंच ॥ पुणिम परियहा पुण बारसभाले हवइ चंदो ॥ एकश्च पौर्णमाती परावर्त एकश्चद्रमात स्तस्मिं चांद्र मासे रात्रि दिवसपरिमाणचिन्तायां एकोनत्रिंशदहोरात्रा द्वात्रिंशत्र द्वाषष्टिभागा रात्रि दिवसस्य एतद्द्वादशभिर्गुण्यते जातानि त्रीणि शतानि चतुःपञ्चाशदधिकामि रात्रि दिवानां द्वादश च द्वाषष्टिभागां रात्रि दिवसस्य एवं परिमाणश्चान्द्रः संवत्सरः। तथा यस्मिन् संवत्सरे अधिकमास सम्भवेत् त्रयोदशचन्द्रमासा भवन्ति सोभिवर्द्धितसंवत्सरः ॥ उक्तं व ॥ तेरलय चंदमासा वासो अभिवढिओय नायबो॥ एकस्मिं चंद्रमासै अहोरात्रा एकोनत्रिंशद्भवन्ति द्वात्रिंशश्च द्वाषष्टिभागा अहोरात्रस्य एतच्चानन्तरमेवोक्तं। तत एष राशिस्त्रयोदशभिर्गुण्यते जातानि त्रीणि अहोरात्रशतानियशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य एतावदहोरात्र प्रमाणोऽभिवद्धि तसंवत्सर उपजायते कथमधिकमाससम्भवो येनाभिवद्धितसंवत्सर उपजायते कियता वा कालेन सम्भवतीति उच्यते । इह युगं
For Private And Personal