SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org त्पुण्यप्रकृतिबन्ध-पापप्रकृत्युच्छेदयोयुगपद्भावात् , न च विघ्नध्वंसेनैव फलोपपत्तावपूर्वकल्पनावैयर्थ्यम् , विहितत्वेन तस्याऽवश्यं पुण्यजनकत्वादित्यधिक मत्कृतमङ्गलवादे । पश्चार्द्धन प्रयोजनमाह, यद् भाषारहस्य, ज्ञात्वा विदित्वा, सुविहिताः सदाचाराः, चरणविशुद्धिं चारित्रनैमल्यम् , उपलभन्ते प्राप्नुवन्ति ॥१॥ अथ भाषामेव तावनिक्षेपतो निर्दिशतिनामाई निक्खेवा, चउरोचउरेहि एत्थ णायव्वा॥दव्वे तिविहा गहणं,तहय निसिरणं पराघाओ॥२॥ अत्र भाषायां निरूपणीयायां, नामादयश्चत्वारो निक्षेपाः, चतुरैः अनुयोगकुशलैः, ज्ञातव्याः, नामभाषा, स्थापनाभाषा, द्रव्यभाषा, भावभाषा चेति, तत्र नामस्थापने आगम-नोआगम-ज्ञात्रनुपयुक्त-ज्ञशरीर-भव्यशरीर- द्रव्यभाषास्वरूपं च सुगमत्वादुपेक्ष्य तद्व्यतिरिक्तद्रव्यभाषाभेदानाह, द्रव्ये च, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्ये च विषये, त्रिविधा त्रिप्रकारा, भाषेत्यस्य पूर्वतो विपरिणतानुषङ्गः । कास्तिस्रो विधा इत्याह, ग्रहणं वचो(काय)| योगपरिणतेनात्मना गृहीतान्यनिसृष्टानि भाषाद्रव्याणि, तथाचेति समुच्चये, निसरणम् , उरकण्ठादिस्थानप्रयत्निाद्यथाविभागं निसृज्यमानानि तान्येव, पराघातश्च, तैरेव भाषाद्रव्यैर्निसृष्टैः प्रेर्यमाणानि भाषापरिणतिप्रायो. ग्याणि द्रव्यान्तराणि । आह च दश. नियुक्तिकारः ॥ “दव्वे तिविहा गहणे, निसिरणे तह भवे पराघाये ति" ॥२७१॥ (द्रव्ये त्रिविधा ग्रहणे निसरणे तथा पराघाते इति) अत्र च विषये सप्तमी ग्रहणादिक्रियामाश्रित्य वृत्तौ ग्रहणे चेत्यादिव्याख्या नात् ।। अन्यथा तु ॥ “तिविहा भासा तंजहा गहणं निसिरणं पराघातो ति" ॥ भाषाया नामादिनिक्षेपाः द्रव्यभाषाया ग्रहणादिमेदत्रयप्ररूपणश्च।। For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy