SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीकूपदृष्टान्तविशदीकरण: प्रकरणम् ॥ तत्वविवेकविवरणसमेतम् ॥ ॥ ५४॥ CARDAMA वाजिनपूजार्थस्नानादेः, अनुभवन्ति च केचित्स्नानपूर्वकं जिनार्चनं विदधानाःशुभभावमिति । खलुक्यालङ्कारे, विज्ञेयं ज्ञातव्यम् । अथ गुणकरत्वमस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कृपज्ञातेनावटोदाहरणेन, इह चैवं साधनप्रयोगः गुणकरमधिकारिणि(ण:)किञ्चित्सदोषमपि स्नानादि,विशिष्टशुभभावहेतुत्वाद्, विशिष्टशुभभावहेतुभूतं यत्तद्गुणकरं दृष्टं यथा कृपखननं, विशिष्टशुभभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति'। कृपखननपक्षे शुभभावः तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति ॥ इदमुक्तं भवति यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोस्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते पूजार्थस्नानादिकरणकालेपि निर्मलजलकल्पशुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणं, तदा(तत् )किलेदमित्थं योजनीयं यथा कूपरखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति॥नचैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात् , कथमन्यथा भगवत्यामुक्तं "तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलामेमाणे भंते ? किं" कजइ ?, गोयमा! अप्पे पावे कम्मे बहुययरिया से निजरा कजई" ।। तथा ग्लानप्रतिचरणानन्तरं पञ्चकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् ।। इत्यलं प्रसङ्गेनेतिगाथार्थ इति"॥ तदेतन्निवतां कूपदृष्टान्तविशदीकरणं काकपक्षविशदीकरणवदुपहासपात्रतामभिव्यनक्ति स्वसम्मताभियुक्तवचनविरुद्धत्वादि 254%A6% A6%25 ॥५४॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy