________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदे द्वितीयप्रश्नः.
गुहान्तरनिवासिनी गुरुकृपाकटाक्षादमी सहायमनुचिन्तकास्सरसिजेषु षट्सु क्रमात् । गुहामयभिषक्तया सततमष्टवाग्वादिनी . महात्रिपुरसुन्दरीमिह मुहुनमस्कुर्महे ॥
रोगत्वं प्रतिपादितम् । रोगनिवृत्तिद्वारा धातुपोषणं वक्तमुचितं भवति । तथा संति दोषप्रकोपनिवर्तकं रसदि विना लोके निवर्तकद्रव्याभावः सुप्रसिद्ध इत्यस्वरसादाह-द्विरसेति । बिरसाईरसहीनार्थहीनरसवाननिलनिवारकः।।
स्वादुरसो रसपचनप्रकोपनिवर्तकः । पित्तप्रकोपोऽपि स्वादुरसेन भाव्यः । एकस्य द्रव्यस्योभयदोषनिवर्तकत्वं वक्तं शक्यते। द्विरसार्थहीनाधिकरसद्रव्यं पवनपित्तप्रकोपनिवर्तकम् । अधिकस्वादुरसद्रव्यं पित्तप्रकोपनिवर्तकम् । तस्मादधिकरसद्रव्यं पवनं हरतीति सूत्रे प्रतिपादितम्॥
कषायतिक्तमधुराः पित्तमन्यैस्तु कुप्यते । इति ॥ ननु शरीरं सप्तधातुमयं, तजन्यमपि सप्तधातुमयं भवति शरीरे सिराः कति सन्ति ? आशयाश्च मर्मस्थानसन्धयः ? तत्सर्वं विहाय पैतृकास्त्रयः मातृजाश्चत्वारो धातव एवाभिहिता इत्याशयं मनास निधाय तत्रस्थितसिरामर्मास्थिसन्ध्याशयानलादीनि व्याचष्टे --पडिति ॥
For Private And Personal Use Only