SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथम प्रश्न: Acharya Shri Kailassagarsuri Gyanmandir शुक्लशोणितसन्निपातो योनिरित्यत्र पितृशुक्लसान्निपात्यम् । एतच्छुक्कमहिना अनेकेषां समाहारे सति सन्निपातः । पितृजश्शुक्लसन्निपातः । एकरसश्चरमधातुः । बहुवचनं नोपपद्यत इति पितृजं अस्थिमज्जा शुक्लधातुसान्निपात्यं योनेर्लक्षणम् । एवं मातृजानि रक्तमांसमेदांसि । एषां सान्निपात्यं योनिः । तस्मात् स्त्रीपुरुषयोस्संयांगे सति सप्तधातूत्पादकसामग्रीसन्निपात एव योनिरिति व्यपदेशः । रक्तामित्यत्र रसासृजोरैक्यं तदेकधातुरिति पूर्वमेव प्रतिपादितम् । इति मातृजाश्चत्वारो धातवः पितृजाश्च यः । उभयोर्धात्वोमेलन योनिरिति समाधत्ते - मातृजमिति ॥ मातृजं रक्तमांसमेदः, पितृजं मज्जास्थिरेतः, सत्वरजस्तमोगुणात्मकं शरीरम् ॥ ८६ ॥ 47 स्त्रीणां चत्वारो धातवः । पुंसां त्रयो धातवः । न्यूनाधिक मात्र संयोगवशात् स्त्रीपूर्वकमेव प्रथममुक्तत्वात् । तस्मात् स्त्रीपुंसयोर्मेलनम् । तत्र वदन्ति- 'मातापितरौ पितरौ ' जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ, स्त्रीपुसावात्मभाग तेभिन्नमूर्तेस्सिसृक्षया । प्रसूतिकाले सर्वस्य तावेव पितरौ स्मृतौ ॥ मातापितृभ्यामन्यतरस्य बहुवचनेन प्रतिपादनम् । तस्मादुभयोर्धातुमेलनरूपं योनिरित्यर्थः । जगदुत्पत्तौ योनिरेव कारणमिति ज्ञापनार्थं च स्त्रीधातवश्चत्वार इति । पितुरपि मातुरपि बहुकारणीभूता जगदुत्पत्तिहेतुः प्रकृतिरेव । तस्याः " प्रकृतेः महत्, महतोऽहंकारः, अहंकारात्पञ्च तन्मात्राणि " इति श्रुतेविद्य मानत्वात् सर्वश्रेष्ठा माता प्रथमत उपात्ता । तत्र शारीरवचनं For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy