________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
आयुर्वेदसूत्रे
"आकाशाद्वायुः" इति प्रमासिद्धत्वात् । ननु देहस्य अनिळधारणत्वं दाहप्रतिबन्धकेसति अनलबारणत्वं च वक्तव्यम् । अन्यथा वहति नभोनिलवत् । अनिल धारणायोग्यत्वात् । जठराग्नेरनपचनकार्यस्य दाहप्रतिबन्धकाभावकार्यत्वेनाहयत्वात् इति न वक्तव्यम्, कुण्डलीगतपित्तस्य अनलवत्कार्यकर्मकरणोपयोगिकत्वात् । तत्पाचककर्म ग्रहणीकला पचनरूपकार्य करोति। तस्मादनलास्मकं शरीरमिति वक्तमयोग्यत्वादित्यस्वरसादाह-पडिति ।
षट्पञ्चाशत्सिरावृताक्षिगतानलः पञ्चरूपोपपत्रमाहारं पचन् अनिलजातानलस्स्वगतार्थ पश्यति ॥२०॥ . अस्यार्थः
षट्पञ्चाशत्सिरावृते अक्षिणी ययोस्तयोगतानल: तेजस रूपाग्निः ज्वलद्दव्यसिरावृतनेत्रगोलमध्यास्थितत्वात् ज्वालावृतद्रव्या वयवानां दहनप्रतिबन्धकत्वं सम्पाद्य सोऽनलः भुक्तानपचनार्थ ग्रहणीकला भूत्वा शरीरं व्याप्य तिष्ठति । भतिदूरस्थमाप तत्तजातीयद्रव्यं विषयीकरोति । तस्मान्नेत्रगोलमध्यस्थितस्सन् यः पश्यात स एवानलसर्वशरीरव्यापकः । अनिलजातानलः स्वगतार्थ अनिलजातानलद्रव्यं दूरस्थमपि विषयीकरोति । अतिदूरस्थोऽप्यनिलश्चक्षुषा विषयो गृह्यते । कुण्डीगतपित्तं तु सर्वभुक्तानपचनार्थम् । तस्याः कुण्डल्या देवतारूपत्वात् । तत्पित्तमपि तैजसवद्भवति। चक्षुर्गोचरार्थ चक्षुर्गततैजसं दूरस्थितमप्यर्थ विषयांकरोति । सा कला सर्व पक्तं योग्या भवतीत्यर्थः । .
For Private And Personal Use Only