SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: 37 हृद्तकफप्लुतानमम्लीभूतं पित्तप्रकोपनाशकम् ॥ ६९ ॥ __अस्यार्थ:-आमाशयस्य पवनप्रकोपहेतुत्वं प्रतिपादितम् । पित्तप्रकोपस्याजीर्णोत्पत्तिकारणत्वं वक्तुं शक्यत्वात, तत्कार्यस्य च हेतोरदृष्टत्वात् इत्यस्वरसं मनसि निधाय कैश्चिद्वयाख्यानं क्रियत इत्यस्वरसान्तरमाह-हृदिति । अस्यार्थः-मधुरीभूतार्थान् भुक्तवतः उदानानिलेन कण्ठं प्रविशत्तत् हृद्रतं सत् कफप्लुतं संसर्गदोषवशात् अम्लीभूतं भवति । स रसः पित्तप्रकोपं करोति । अत्र सूत्र आम्लोऽग्निदीतिकृत्स्निग्धः हृद्यः पाचनरोचनः । उष्णवीर्यो हिमस्पर्शः प्रीणनो भेदनो लघुः। करोति कफपित्तास्त्रं मूढवातानुलोमनम् * ॥ एतद्वचनानुसारेण पित्तप्रकोपहतोरदर्शनात् पित्तनिवर्तकः स्वादुरसः पित्तप्रकोपं हरतीत्यर्थः । तत्र सूत्रवचनं _ "तकाद्या मारुतं नन्ति" इति प्रतिपादितम् ।। एतद्वचनानुसारेण स्वादुरसस्य पित्तप्रकोपराहित्यजनकत्वं प्रतिपादितम् । एतत्सूत्रवचनद्वयस्यार्थस्सुबोध इत्यर्थः । - ननु दोषप्रकोपनिवर्तनद्वारा धातून्पुष्णन्तौ स्वाद्वम्लरसौ पवनप्रकोपं कुरुतः । तस्मात्तनिवर्तको न भवेदित्यस्वरसाहाहमधुरेति। मधुराम्लरसौ कफकरौ ॥ ७० ॥ मधुररसश्चाम्लरसश्चोभयमपि कफप्रकोप दत्ते । मधुररसः पवनपित्तनिवर्तकरसः तत्तहव्यं भूत्वाऽन्तः प्रविशति । * अष्टाङ्ग सूत्र X-10-11. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy