SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: हितमितपथ्यादनाहोथे क्षीणे दोषप्रकोपकार्याभावकरणे तस्मादग्नेर्बलं कर्तुं हृढतरसामग्रयां सत्यां क्षुत्तृड्रचिश्शक्तिः । धातुक्षमो यदि भवेत्तदनन्तरं वमनविरेककर्मकरणेन श्वासखास. हृद्रोगविषमज्वरेभ्यः भयरहितस्सन् सुखी भवेत् । तस्य चिरायुष्टं भवतीत्यर्थः । ननु इदमप्यनुपपन्नम् । पथ्यान्नादनात्पूर्णे सति धातवः पु. ष्णन्तीति यस्तदयुक्तम् । अन्नादनस्य च तजाताजीर्णस्य च कार्यकारणभावो वक्तुं शक्यः । तस्मात्सारकिट्टतया पाके कृतकार्यकरणेन अनलेन आमाशययोः कार्यकारणभावो वक्तुं शक्यवादित्यत आह-आमेति । आमाशयस्थितं सर्वधातुबलकारकम् ॥६२॥ अन्नपानादनाजाताहागे धातून्यथायथं कुर्वन् सन्तर्पयन् सारं विसृज्य तेनामाशयमापूरयति । तेन पूर्णे स धातून्पुपणातीत्यर्थः । अत्र सूत्रवचनम्--- प्रसृष्टें विण्मूत्रे हृदि सुविमले दोषे स्वपथगे। विशुद्ध चोद्गारे क्षुदुपगमने वातेऽनुसरति ॥ तथामावुद्रिक्त विशदकरणे देहे च सुलघौ । प्रयुञ्जीताहारं विधिनियमितः कालस्स हि मतः ॥ * आमाशयातिपूरणायाहारं विधिनियमितं' कालहितं प्रयुजीत। ननु षड्रसद्रव्यादनापाके तद्रसान् धातुषु संस्थाप्य धातवस्तुष्टास्सन्तः तेन विरसद्रवेणामाशयः पूर्यताम् । तावता पाचकपित्तकलायाः अबलत्वेन कार्यकरत्वासम्भवात् तयोः कार्यकारणभावः कथं भवेदित्यस्वरसादाह-समानेति । * अष्टा सूत्रं. VIII b6. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy