SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 26 www.kobatirth.org आयुर्वेद Acharya Shri Kailassagarsuri Gyanmandir रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता ॥ प्रसेकारोचकाश्रद्धा विपाकाः स्वेदजागराः । कण्ठोष्ठशोषस्तुशुष्क छर्दिकासौ विषादिता ॥ हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोः ग्रहः । भ्रमः प्रलापो घर्मेच्छा विनामश्वानिलज्वरे ॥ * पवनपित्ते अङ्गपोडनं सर्वाङ्गेषु प्रपीडनम् । मलमार्गतिरो धनं सर्वमलद्वाराणां वायुपूरितत्वान्मलमूत्रादिकार्यकारणं तुझ्शकं च भवतीत्यर्थः । धातुचरमार्गविगमनं विरुद्धगमनं रोगहेतुकम् | अनिलादनिलस्थलचलनं जठरानलस्थलचलनं भवति । लग्नस्थलचलनत्वात् आहारपचनं कर्तुमशक्यत्वादित्यर्थः । तत्र दोप्रकोपहेतुकरसविरसादनादजीर्णे जाते दोषभेदेन ज्वरास्त्रिविधा भवन्तीति वक्तुं शक्यते । सर्वसामान्यज्वर एकः तदन्तरदोष - भेदेन त्रिधा भूत्वा ज्वरश्चतुर्विधो जातः । इतः परमष्टज्वरस यापूरणार्थ पञ्चमो वातपित्तज्वर इति वक्तुं न शक्यते । एतत्प्रतिपादितज्वराज्यतिरेकेण तदुत्पादक सामग्रयभावादेव तत्कार्य नोपपद्यते, कारणेन विना कार्याभावस्योक्तत्वादित्यस्वरसादाहपवनेति । पवनपित्तहेतकरसविरसजाता जीर्णजन्यामरसासृग्धातुचराद्यदोष उभयलक्षणयुक्तरोगः पवनपित्तप्रकोपज्वरः ॥ ५६ ॥ ननु पवनपित्तज्वरोऽस्तीति सूत्रे अस्तीत्यस्य व्याख्यानं सूत्रव्याख्यानमन्यथा कार्य निदानशास्त्रेऽदृष्टत्वादिति गम्यते * अष्टाङ्गानिदानं II--10-18 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy