SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: 21 RAVANA . पित्तं पश्चात्मकं तत्र पक्कामाशयमध्यगम् । पचभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥ ननु पाचकपित्तं न सारकिट्टतया पृथग्विभज्य अन्नमात्रं पचति । दोषा दुष्टान्सन्तः धातून्दूषयन्ति । तेनावश्यं दोषपचनमपि कर्तव्यम् । तत्र वचनं-- आहारं पचति शिखी दोबानाहरवर्जितान्पचति । दोषक्षये च धातून्पचति हि धातुक्षयेऽपि च प्राणान् ॥ . एतद्वचनानुसारेण पाचकोपकारकत्वेन जठरानल एव प्रति. भाति न तत्पित्तमित्यस्वरसादाह-दोषेति । दोषधातुमलोष्मजं तथा ॥४९॥ धातुदोषान्मलोष्मजान् पित्ततद्विकार विभज्य पचतीत्यर्थः । ननु दोषपचनं रोगनिवृत्तिकारणम् । पाचकपिसेन आमान्तलकनेन संशोध्य दोषस्थितविकारान्पचति । तत्र अनिलानलात्मककुण्डालताभ्यां जातोष्मैव पाचकपिसमिति व्यपदेशः । अन्यथा शुद्धानलस्यैवेति नाशकनीयम् । तदद्वं दोषे हते तविपरीतगु. णान्प्रयच्छतीत्याशयवानाह-ग्रहणीति । ग्रहणीकलाऽऽयुस्तेजांसि दधाति ॥५०॥ बाह्यस्थितपदार्थानां गुणान्सह्य दोषधातुस्थितदुर्गुणाभिगृह्य निग्रहं कृत्वा स्वार्जितगुणानुग्रहं कर्तुं समर्थ सत् पाचकपित्तम् । निग्रहानुग्रहयोः पाचकपित्तस्यैव समर्थत्वात् । पित्तकलायाः ग्रहणीपदं विशेषितम् । सा कला आयुस्तेजांसि दधाति । अत्र शारीरवचनं अन्नभौतिकधात्वग्निकर्मति परिभाषितम् । अन्नस्य पक्ता सर्वेषां पक्तणामधिको मतः ॥ अष्टाङ्गसूत्रं XII-10 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy