SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमप्रश्न: Acharya Shri Kailassagarsuri Gyanmandir पूर्वोक्तरीत्या देहस्य अनामयत्वं सम्पाद्य आत्ममनननिदिध्यासनयोगेन परमसुखं जीवोऽनुभवति । तत्र वचनं क्रमेणोपचिता दोषाः क्रमेणोपचिता गुणाः । गता ये च पुनर्भाव अप्रकम्पया भवन्ति च ॥ अनामय कार्यकरणेन अरोगो भवन् स्वर्गसुखमेवानुभवतीत्यथेः । एवमुक्तरीत्या देहस्य अनामयत्वं साधितम् । तावता आत्ममननसामग्री न प्रतिवादिता । किं अरोगवान्भवतीति दृढतरजठरानलवशत्वेन सर्वेन्द्रियाणां सर्वविषयभोक्तृत्वं साधितम् ? अनामयत्वमात्ममननसामग्री मात्रजन्यत्वं न भवतीत्यस्वरसादाहअहमिति । अहम्प्रत्ययः कर्मकर्ता ॥ १३ ॥ अहंकाराधिष्ठितमात्रं रक्तोऽहं श्यावोऽहं इति प्रत्ययविषयक - महामति ज्ञानम् । तथा ज्ञानवानहमिति अनुव्यवसायेन ज्ञातुं शक्तः सत्कर्माधिकारी भवेत् । सुकर्मणा आत्ममननं कर्तुं शक्यत इति । कर्मणैव हि संसिद्धिमास्थिता जनकादयः । इति धर्मविषय कज्ञानगोचरत्वेन परब्रह्मणः मनोविषयकज्ञानगोचरत्वं सिध्यति । अधिष्ठानभूतोऽयमात्मा, यस्सिध्यति स एव जीवात्मा । तावुभौ शरीराधिष्टितावेव । तयोरन्यस्य सर्वभोक्तृत्वं व्यपदेष्टुमाह-स्थानेति । स्थानवानहंकारी ॥ १४ ॥ परमात्मनामधिष्ठानरूपत्वं नोपपद्यते । तज्जोवात्मनां सम्भवर्तात्याशयवानाहत्यर्थः । यस्य यावत्कालो योगश्चराते तस्य अरोगित्वस्य स्वतस्सिद्धत्वादित्यत आह-यावदिति ॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy