________________
Shri Mahavir Jain Aradhana Kendra
250
www.kobatirth.org
आयुर्वेदसूत्रे
Acharya Shri Kailassagarsuri Gyanmandir
रोगास्सम्भवन्ति । मूर्छारोगश्च हिक्कारोगश्च भ्रमविकारः रक्तः वायुश्च शोभाश्च अङ्गकम्पश्चापस्मारश्च पादस्फुरणं च सम्भवन्तीत्यर्थः ।
ननु सृष्टिसंहारक्रमद्वयमपि प्रतिपादितम् । पञ्चभूतानामुत्यत्तिक्रमः तत्संहारक्रमश्च ज्ञापितः । तथा सति दृष्टं जगच्छरीरात्मकं जीवच्छरीरात्मकं प्राणादिमत्त्वात् इतीदं जगत्सर्व शरीरात्मकं प्रपञ्चात्मस्वरूपत्वात् इत्यनुमानप्रमाणेन स्वाङ्गशरीरोत्पत्तिः वक्तव्या । तत्र शरीरोत्पादकसामग्रयां सत्यां नित्यं शरीरकार्य जायते । शरीरोत्पादकसामग्रयामसत्यां तत्कार्योत्पत्तेशक्यत्वात् इत्यस्वरसादाह-सकलेति ।
सकलरसाधारादिभूतमङ्गुष्ठदळं नाभिपद्माधिष्ठितं त्रिकोणं नाम सरोरुहमजायत ' ॥ ५०॥
.
सकलरसाधारादिभूतं नाम अङ्गष्टदळं षड्रसात्मकं सप्तधात्वात्मकं अवर्णोपधगकवर्गपञ्चवर्णाधारभूतं पञ्चभूतात्मकशरीत्पत्तेः आधारभूतत्वेन सकलरसाधारभूतमिति । अङ्गुष्ठदळमात्र विशिष्ट नाभ्यधस्स्थितपद्मं त्रिकोणपद्मम्
अङ्गष्ठमात्रः पुरुषोऽङ्गवं च समाश्रितः ।
इति श्रुत्यनुसारेण प्रकृतिपुरुषयोराधारभूतमिति तावेव प्रजाजननं कुरुतः । तयोरधिष्ठानत्वेन तत्र स्थितः असृगेव रस इति । अत एव शरीराधारभूतमिति सम्यक्प्रतिपादितम् । रसो वै सः रसह्येवायं लब्ध्वाऽऽनन्दी भवति " । इति श्रुविद्यमानत्वात् । तत्रैव त्रिकोणपद्मं पुरुषस्याप्यस्ति । बीजेs
((
1 ' अङ्गुष्ठदळनाभिपद्मं सर्वार्थानां बीजभूतं त्रिकोणमजायत' इति — A&B.
For Private And Personal Use Only