SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 238 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे मन्दोष्णादिसमदोषाधिकाक्षीणवृद्धि गुणकास्थिमज्जा मेदोऽधिष्ठिताः ॥ ३६ ॥ मन्दगुणवत्त्वावच्छेदकपवनत्त्वं उष्ण गुणवत्त्वावच्छेदकपित्तत्वं तदितरदोष कफावच्छेदकं तत्क्षीणवृद्धिगुणाश्रयत्वम्, तथा सति मज्जाधातुपर्यन्तगतसकलसामग्री सान्निध्यं सम्पादयन् रोगाभिवृद्धिं कुर्वन् तद्रोगिणमन्त्यसन्निहितं करोतीत्यर्थः । ननु दोषाणां मज्जाधातुपर्यन्तं रोगावरोहणेन सकलधातुदोषसामग्रयां सत्यां पञ्चधातुगतप्राणोद्भवानां च वायूनां सं श्वाराभावत्वेन तच्छरीरं विहाय बहिः प्रदेशगतत्वात् स जीवः शरीरावतरितो भवति । दोषाणां कार्यकारित्वस्य तावन्मात्रेणैव चरितार्थत्वात् शुक्रधातुप्रवेशजकार्यकरणस्य प्रयोजकत्वाभावात् । तस्मात्सप्तधातुगणनस्य प्रायोजकत्वाभावेन व्यर्थ स्यादित्यस्वरसादाह - अदोषेति । अदोषधातुरसानुसारानुसरास्थिरसपचनचरम धातुप्रचारकाः ॥ ३७ ॥ एतत्कार्य कारकस्य पचनत्वं दोषाणां चरमधातुप्रचारणत्वम् । प्रचरन्तीति प्रचारकाः । शुक्रधातुपोषककार्य शुद्धस्वादुरसादनहेतुकम् । न शोषककार्यम् । अदोषत्वं नाम अदोषधातुरसानुसारानुसरदोषप्रकोपकार्याभाववृद्धि कारकमित्यर्थः । उक्तमर्थमुपसंहरति-- भूतेति । भूतपूर्व पदार्थजातधातु हेतुभूतानलसमरसपचनविरुद्धार्थरसपाकयोगाद्विपर्ययः ॥ ३८ ॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy