SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चमप्रश्न: 219 views ऽपि विकारं भजति । विषमरसपचनमपि करोति । तत्संस्कारजन्यपवनगतिःविस्वरवर्णकशब्दज्ञापकताल्वोष्टपुटव्यापारं करोति। तत्पदाधारपान मुकुलीकरोति । तदनन्तरमपि पित्तप्रकोपकारकरसवद्दव्यान्तरापादनेन तत्तत्संस्कारजातगुणान्वयमेव बिभर्ति । यदा तद्यावद्विकारं करोति तदा पित्तविशिष्टपवनगत्यैव शाप्यते। रसविषमंदोषेण संस्कारजातपित्तविकारयुक्तस्सन् तत्तद्धातुमार्ग संप्राप्य सञ्चरन् तत्तद्धातून् सन्दूष्य तत्तद्विकारज्ञापनं कुरुते । तदा पित्तप्रकोपदोषोऽयमिति ज्ञातुं शक्यत एवेत्यर्थः । एवं कफप्रकोपकारकद्रव्यान्तरादनं संभवति । तदा कफप्रकोपज्ञापकगुणान्विधत्ते । कफपित्तामयगतो देवदत्तः इति तत्तद्रव्यगुणविशिष्टपवनस्य तत्तद्दोषगुणज्ञापकगतिः परेषामपि ज्ञाप्यत इति । अयं कफरोगयुक्तः पवनविकारः द्वन्द्वयुक्तपवनविकारकफज्ञापकगतिं करोति । तदा विषमरसादनजातसंस्कारगुणविशेषपवनदोष एव अनेकधातुमार्गगतिकारकशक्तया भवति । तत्तद्धातुपोषणं च करोतीत्यर्थः। ननु पित्तप्रकोपरसवद्दव्यादनेन पित्तप्रकोपकारकगुणान् गच्छति । स एव पित्तपवनप्रकोपगत्या ज्ञातव्यः । एवं व फ. प्रकोपकारकरसविरसद्रव्यादनेन कफप्रकोपगुणान्विधत्ते । तदा कफप्रकोपद्वन्द्वगतिरिति व्यवह्रियते । एवमयं त्रिदोषरोग इति एवमाकारज्ञानेन व्यवहर्तुं शक्यते । तत्तजनकाङ्गानामदृष्टत्वात् 'अयं त्रिदोषरोगः' इति ज्ञानं चात्र कथं स्यादित्याह--चरमति । चरमरसपचनरोगस्त्रिदोषगः ॥ २१ ॥ । एतत्सूत्रात्पूर्व- 'विषमरसानेकपथधातुमार्गगाः द्विदोषगाः । इति A & B कोशयोरधिकः पाठः । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy