SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्न: 175 धकहेतुभूतत्वात्, यन्नैवं तन्नैवं यथा घटः । तत्तद्वयाधिनिदानशानं तत्तात्सराधीनवर्णात्मकपदज्ञानहेतुकं, अविकारहेतुकसामग्रीजन्यत्वात्, यन्नैवं तन्नैवं यथा घटः । बाह्यपवनाकर्षणजातताल्वोष्ठपुटव्यापारसंस्कारोद्वोधकवर्णाधारपद्मं विरसद्रव्यादनजन्यपवनप्रकोपहेतुकस्वरबोधकारक, पवनप्रकोपलक्षणज्ञानबोधकद्रव्यत्वात् आमपित्तासरासारं यादृशसिरासंस्पर्शनात् तत्तदङ्गजन्यरोगा शते । सकलपवनरोगजनकसामग्री अमपित्तसारः, तत्तदगावलग्नसिरासंस्पर्शनसामग्रीस्वरूपत्वात् । नानारूपघटानां एकमृतिपण्डमेव कारणम् । तथा आकाशादिवदङ्गजन्योपाधिभेदात् कर्णपवनरोगः नेत्रपवनरोगः शिरःपवनरोगः इति व्यपदिश्यते । ननु आमपित्तसारः उदरपाण्डुशोफविसर्पकुष्ठपवनरो गाणां एकमेव कारणमिति वक्तुं न शक्यते, तत्तन्नामभेदेन कार्यभेदस्य दृष्टत्वात् । तत्र कारणभेदोऽस्तीति अवश्यं ज्ञातव्यम् । घटः कलश इव भेदो भवतीति न वक्तव्यम् । तद्धि सर्व पृथुबुध्नोदराकारत्वेन अयं घट इति घटत्ववति घटत्वप्रकारकत्वं ज्ञातुं शक्यत्वात् । न तद्वदेवात्रापि भविष्यति, अयं पाण्डुरोगः अयं शोफरोग इति रोगत्ववति रोगत्वविशिटप्रकारकत्वेन शातुं शक्यत्वादिति वाच्यम्, तेषां मृद्विकारव्यक्तीनां जलानयनकार्योपकारकत्वं पृथुबुध्नोदराकारव्यक्तीनां व्यतिभेदज्ञाने सत्यपि पृथुबुध्नोदराकारस्य एकप्रकारकत्वस्य दृष्टत्वात् । दृष्टान्तेनापि अभेदज्ञानमात्रमिति नानुभूयते । तद्वदत्रापि फलभेदरूपभेदचिकित्साभेदज्ञानानुभवस्य दृष्टत्वात्, इति चेत् न । तद्वदत्रापि कार्यभेदाभावोऽस्ति । तथाहि-आमपित्तसारः उक्तरोगेषु एक एव हेतुर्भवति । तत्तचिकित्साभेदेन तत्तन्नाम. भेदानुभवः कथमपलापयितुं शक्यते? अत्र ब्रूमः-आमपित्त For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy