SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 172 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे यते । पित्तप्रकोपसामग्रया पित्तरोगो जायते । पण्डुरागज्ञापकत्वक्पालित्यं कथं स्यादित्यस्वरसादाह--हृदिति । हृदि स्थितामपित्तविषसारं पादपद्मशोषकं अवर्णबोधकचतुस्त्रिंशत्सिरासंसर्गवशादमृतप्रवाहरोधनात्पवनजन्यामयाः प्रवर्धन्ते ॥ ३३ ॥ रसविरसद्रव्यादनजातामाशयव्यापक पवनविगत्या आमपि - तविषसार: अवर्णोद्बोधकतत्पादपद्म पोषकसिरारन्ध्रमार्गगतामृतप्रवाहं निरुध्य वातविकारजन्य पाण्डुरोगः हृदिस्थितामपित्तसारः परंपरा हेतुर्भवतीत्यर्थः । स एव वातोदरस्यापि हेतुर्भवति । वातपित्तपण्डुरोगस्यापि परंपरया हेतुर्भवति । अनिलजन्यचातामयस्यापि हेतुर्भवति । अत एव उदरामयनिरूपणानन्तरं पण्डुशोफविसर्पामयानामवसर इति प्रतिपादितम् । एतत्प्रतिपादितामयानां जनकीभूतामपित्तरसविषद्रव्यस्यैकत्वात् । एककारणजन्यस्य नानाकार्यप्रतांतिः उपाधिभेदाद्भवति । सुवर्णस्यैकत्वेऽपि तज्जन्यकार्यं तत्तद्रूपभेदेन बहुविधं प्रतीयते तंत्र कारणबाहु व्यस्य दृष्टत्वात् । ननु अयं वातपाण्डुरोग:, अयं पित्तपाण्डुरोगः, अयं कफपाण्डुरोगः इति तादृशप्रतीतेर्विद्यमानत्वात् तत्कार्यहेतुभूतार्थाः दोषा एव भवेयुः । विरसजन्यामपित्तविषरूपद्रव्यस्य विरसजनकत्वात् तत्पाण्डुशोफविसर्पामयानां तत्तजनकीभूता दोषा एव हेतवो भवन्तीत्य स्वरसादाह-अमृतेति । अमृतप्रवाहालवालोपजीव्यावर्णोद्बोधक सरन्ध्रकाभ्यन्तरधरषटूसिरामपित्तविषसारग्रसनं पवनप्रकोपहेतुकम् ॥ ३४ ॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy