SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 164 www.kobatirth.org आयुर्वेदसूत्रे पवनरोगस्तु स्वाद्वम्लविरसजन्यः तदन्यरोगकार्याहेतुकत्वे सति तद्रोगकार्यजनक द्रव्यत्वात् इति व्यतिरेकानुमानेन निर्णेतुं शक्यत्वात् । पवनप्रकोपनिवर्तकः स्वाद्वम्ललवणरसः । ताईरसजन्य उदरामयः । पित्तप्रकोपनिवर्तकः कषायतिकस्वादुरसः । तद्विरसः पित्तप्रकोपकारकः । तस्मादुभयदोषप्रकोपजनकस्य स्वादुरसविरसद्रव्यादनत्वात् स एव द्विदोषप्रकोपको भवति । द्वित्रिविधरसजातरोगी पवनपित्तप्रकोपजातोदरामयौ । तन्निदानं तत्तल्लक्षणलक्षिताज्ञातव्यमित्यर्थः । 1 Acharya Shri Kailassagarsuri Gyanmandir 'ननु स्वाद्वम्ललवणरसादीनां विरसत्वं सूत्रे प्रतीयते । स विरसः पवनपित्तप्रकोपकारक इत्युक्तम् । एवं सति कषायतिक्तस्वादुरसानां विरसत्वं अस्मिन्सूत्रे प्रतीयते । स विरसः पित्तप्रकोपकारको भवतीत्युक्तम् । इदं नोपपद्यते । विरसत्वं नाम दोषप्रकोपकविरुद्धरसवद्रव्यं भवति । तद्रसद्रव्यादनं कथं दोषत्रयोपकारकं कालवशाज्जाततद्व्यतिरिक्तरसस्य गुणातिरिक्त गुणवत्परिपूर्णद्रव्येष्वेव तथा प्रतीतत्वात् । तत्र सूत्रवचनं मधुरं श्लेष्मलं प्रायः जीर्णाच्छालियवाहते । मुद्रागोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात् ॥ प्रायोऽम्लं पित्तजननं दाडिमामलकाहते । अपथ्यं लवणं प्रायः चक्षुषोऽन्यत्र सैन्धवात् ॥ तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम् । ऋतेऽमृतापटोलीभ्यां शुण्ठी कृष्णा रसोनतः । कषायं प्रायशश्शीतं स्तम्भनं चाभयामृतं ॥ " अष्टाव. सूत्र. X. 33-35. For Private And Personal Use Only ܐ
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy