SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः 161 तावत्सिरागतप्रदेशभेदात् श्वयथुबोधकम् ॥२२॥ 'वातप्रदेशावलम्बकसिराविकारे सति उक्तरीत्या वातोदरामयो जायते । तथा पित्तप्रदेशावलम्बकसिराविकारे सति पित्तोदरं जायते। कफप्रदेशावलम्बकसिराविकारे सति कफोदरं जायते। तत्तदोषहेतुकसिराणां कार्य एव द्वन्द्वदोष इति दोषद्वयजन्यास्त्रयः-पवनपित्तदोषजन्योदरामय एकः । कफपवनदोषजन्योदरामय एकः । पित्तकफजन्योदरामय एकः । त्रिदोषजन्योदरामय एकः। सर्व मिळित्वाऽष्टविधरोगा जाताः । तावत्सिरागतेति-तत्तद्विरुद्धरसीवरसजातसिरामार्गगत. पवनगतितिरोधानादनले मन्दे सति तेनाजीर्णत्वं तदवच्छेदकम् । तत्तत्प्रदेशभेददोषत्रयाश्रयादुदररोगस्य हेतुबोधकत्वमेव तत्तदवच्छेदकं भवतीत्यर्थः । पित्तप्रदेशभेदस्थितसिराविकारः कथं ज्ञातुं शक्यते पित्तोदरामयज्ञाने सति तस्य निवर्तकेन निवर्तयितुं शक्यत्वादियाशयं मनसि निधायाहपवनेति। पवनप्रकोपहेतुकरूक्षातिशीतललध्वतिवेदनारुचिविवर्णविरसास्यतन्द्रामवृंदाहभ्रमतृष्णाज्वरातिसाराङ्गपीतत्वं पित्तप्रकोपोदरामयहेतुकम्॥२३॥ रूक्षगुणत्वं-सिरामार्गरन्ध्रेषु पवनातिंगत्या तत्तदङ्गेषु उ. ष्णोपलब्धिरुत्पद्यते । तत्र तस्य पवनविकारस्य रूक्षत्वमवच्छेदकम् । यत्र पवनस्य अल्पगत्या सिरामार्गरन्ध्रेषु पवनगति. रोधनं दृश्यते तत्रातिवेदना जायते । तद्वदेव विरसास्यत्वं AYURVEDA 21 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy