SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 आयुर्वेदसूत्रे स्रोतोमार्गसिरात्रिशतधराष्टादशदळ'पद्मं प्रतीतिगमनागमनचेष्टाश्रयं भवति ॥१५॥ तास्सिरा मर्मशः स्रोतोमार्गसश्चरितास्त्रिशतसङ्ख्याकाः । एतादृशचेष्टाश्रयस्य शरीरस्य आत्माधिष्ठितत्वात् तास्सिराः स्रोतोमार्गप्रवाहस्य वेलारूपा भवन्ति । कण्ठप्रदेशस्थिताष्टदळपाभं सर्ववर्णोच्चारणहेतुभूतपवनप्रवर्तकं तत्प्राणदेवताधारं तस्मिमेव कार्यहेतुभूतशाने सति चलनात्मकर्मकरणात् आत्मा शातुं शक्यत एवेत्यर्थः । ... ननु चलनात्मकं कर्म ईश्वरप्रेरणाजन्यम् । एतत्कर्म लकर्तृकं कार्यत्वात् इत्यनुमानेन परमात्मा अन्तस्थितस्मन् कर्म कुरुते । अत्र ईश्वरप्रयत्नजन्यभावः चलनात्मकर्मभावः । तथा सति अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य तथोरेव दृष्टत्वात् । इत्यनुमानन ईश्वरसिद्धिरित्यर्थः । गुणत्रयजनकस्वाद्वम्ललवणरसादनेन पवनप्रकोपो निवयते। तदन्नादनेन शरीरमविकारं सत् चलनात्मकं कर्म कुरुते । तत्तद्विकारे सति तत्तत्कर्म कुरुते । कर्मप्रवर्तकं च गुणत्रयम् । प्रतिपादकस्वादम्लरसविरसादनेन सुष्ठ कर्म कर्तुं न शक्यते । तत्र इडामार्गेण बहिःपवनस्तत्र भेषजं भवति, साध्यरोगाणामपि तन्निवर्तकत्वात् । ___ स्वावम्ललवणरसविरसादनेन उदरामयो जायते । तस्यापि इदमेव भेषजं भवति । पवनदोषे अप्रकोपे सति शरीराङ्गकर्मकरणं सूच्यते । तत्प्रकोपे सति शरीरजन्यकार्याभायो दृश्यते । शरीरादिधिकारहेतुभूतान्नादनं तत्तत्कर्महेतुकम् । तस्मात्याधिप्रागभावपरिपालनमेव फलीभूतं कार्यमित्यर्थः । 1 अष्टदळ-इति व्याख्यानात् प्रतीयते. me For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy