SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः 149 पञ्चदशकमलं जङ्घादेशगतं सहस्रसिराधारकं पञ्चाशन्मर्मगतम् ॥ ९॥ गतागतसंस्कारोपकारकपवनयोगस्समाधिः । कुण्डल्याधारभूतपञ्चदशकमलं जङ्घाप्रदेशस्थं सहस्रसिरावृतं सत् मर्मस्थानानुसन्धानकारकं जङ्घाभ्यां चलनोपकारकमिति वक्तुं शक्यत्वादिति । तस्मादेते जङ्गमा इति प्रदर्शिताः । जङ्घापद्मप्रदेशस्थपञ्चदशदलपद्मयच्छरीराङ्गं चलनात्मककर्मोपकारकं, जङ्गमशरीराङ्गकत्वात् यन्नैवं तन्नैवं यथा स्थाणुः । तत्पश्चदशपद्मकं पादसहस्रावलम्बक सहस्रसिरावृतं द्विशतपश्चाशत्सिरावृतैकाइत्वात् , यनैवं तन्नैवं यथा स्थाणुशरीराङ्गम् । पञ्चाशन्मर्मगतं पञ्चाशद्वर्णात्मकं तत्तद्वर्णबोधकाभिनयचलनात्मकाङ्गाधारभूतत्वात्, यन्नैवं तन्नैवं यथा घटः ॥ गतागतसंस्कारोपकारकपवनयोगस्समाधिः॥ -- सामधिरिति-समाधिश्चलनकर्मविशिष्टकर्मा, पवनाश्रितक्षानेच्छाप्रयत्नजन्यहेतुशापकद्रव्याश्रितत्वात् , यथा घट इति । ताल्वोष्टपुटव्यापारजातशब्दानाह-हस्तेति। हस्तविन्यासानुसृताशाबोधकः तच्छब्दज्ञापकाभिनयकर्मविशिष्टविषयकज्ञाना. श्रितत्वात् । एवमनुमानप्रमाणेन आयुर्वेदसूत्रार्थव्याख्यानं कृतम् ॥ ननु चैतन्याधिष्ठितं शरीरं चेष्टाश्रयं चेष्टाश्रयजन्यफलानुभवानन्दात्मकत्वात् , यन्नैवं तन्नैवं चैतन्यरहितशरीरवत् । जीवच्छरीरं सात्मक, प्राणादिमत्त्वात् । यजीवच्छरीरं न भवति 1 A & B कोशेषु हस्तादिसूत्रं नदृश्यते. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy