SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 आयुर्वेदसूत्रे विषयकज्ञानानुभवात् । नित्यनैमित्तिककर्मद्वारा परमात्मानुभवशानमुपलभ्यते। तस्यापि शरीरदायकरणहेतुत्वेन तदेव आरोग्यकार्यकरणमावश्यकं भवति । अत एव भागायतनं शरीरमिति यथार्थ भवतीत्यर्थः । तत्र स्मृतिवचन-- नित्यनैमित्तिकं कर्म दुरितक्षयकारकम् । शानं च विमलीकुर्वन् अभ्यासेन तु वेदवित् । अभ्यासपक्वविज्ञानः कैवल्यं लभते नरः । तत्र सूत्रस्थानवचन1अन्नपानं विषाद्रक्षेत्र विशेषेण महीपतेः । योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥ इति । तस्माच्छरीरदायंकरणहेतुकं भवतीत्यर्थः ॥ . ननु परमात्मा मनोविषयको न भवति, निर्गुणत्वात् निरवयवद्रव्यत्वात् निकायकत्वात् कालवत्, मनस आत्मगोचरस्वस्य वक्तुमशक्यत्वादित्यस्वरसादाह–अन्तरिति । अन्तःकरणधर्मावच्छिन्नविषयावलम्बितदेशकालभावनायोगः सविचारः ॥ ३ ॥ परमात्मा विचारणीयः अत एव सवितर्कः तर्कसहकृतप्रमाणेन ज्ञातव्यः । तथाहि -- अङ्करादिकं सकर्तृकं कार्यस्वात् घटवत्, इति तर्कसहकृतानुमानेन शातव्यः । अन्तःकरणधर्मावच्छिन्नविषयावलम्बितत्वं मनोविषयकधर्मत्वं, सर्वदा आत्मानुभवत्वात् । तस्य अवच्छेदकं शरीरं सत् विषयानुभवाहं भवति । तस्यापि शरीरदायकरणमावश्यकमित्यर्थः । मनःआत्मानं विषयीकरोति । तस्य स्वरूपमा 1 अष्टाङ्ग. सूत्र VII. 2. अन्तःकरणविषयावलम्बितदेशकालधर्मावच्छिन्नभावना सविचार: A & B. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy